________________
१७]
षष्ठोऽध्यायः।
२०४
लवणधर्मव्यापारवृद्धः। प्रायोपवेशनवत्प्रायोपवेशनमनशनं तत् पर्यन्तकालकरणीयानशनक्रियातुल्य इत्यर्थः । श्रेयान् अतिप्रशस्यः। निरपेक्षयतिधर्मो जिनकल्पादिरूपः कल्पादिग्रन्थप्रसिद्धस्वरूपो वर्तत इति ॥
तथा ।
तत्कल्पस्य च परं परार्थलब्धिविकलस्य ॥१५॥
इति ॥ तत्कल्पस्य निरपेक्षयतिधर्मप्रतिपत्तिसमर्थपुरुषविशेषतुल्यस्यान्यस्थापि । चशब्दः समुच्चये। परं केवलं परार्थलब्धिविकस्लस्य तथाविधान्तरायादिकर्मपारतन्यदोषात्परार्थलब्ध्या साधुशिष्यनिष्यादनादिसामर्थ्यलक्षणया विकलस्य श्रेया- 10 निरपेक्षयतिधर्मः इत्यनुवर्तते ॥
अत्र हेतमाह। उचितानुष्ठानं हि प्रधानं कर्मक्षयकारणम् ॥ १६॥
इति ॥ उचितानुष्ठानम्। हिर्यस्मात् । प्रधानमुत्कृष्टं कर्मचयकारणमिति ॥
एतदपि कुत इत्याह ।
15
उदयविवेकभावाद्रत्नत्रयाराधनात् ॥१७॥
इति ॥ उदग्रस्योत्कटस्थ विवेकस्य विधेयाविधेयवस्तुविभागविज्ञानलक्षणस्य भावात्मकाशात् । किमित्याह रत्नत्रयस्य
9 B omits the commentary on this sūtra.