________________
१३]
पठोऽध्यायः।
तथा ।
योगवयस्याप्युदग्रफलभावात् ॥ १२॥ इति ॥ योगत्रयस्यापि मनोवाकायकरणव्यापाररूपस्य परार्थसंपादने क्रियमाणे। न पुनरेकस्यैवेत्यपिशब्दार्थः। उदग्रफलभावाददग्रस्य प्रकारान्तरेणानुपलभ्यमानत्वेनात्युत्तमस्य । फलस्य कर्मनिर्जरालक्षणस्य भावात् । न हि यथा देशनायां सर्वात्मना व्याप्रियमाणं मनोवाक्वायत्रयं फलमाप्नोति तथान्यत्रकृत्यान्तर इति ॥
तथा । निरपेक्षधर्मोचितस्यापि तत्प्रतिपत्तिकाले पर- 10 परार्थसिवौ तदन्यसंपादकाभावे प्रतिपत्तिप्रतिषेधाच्च ॥ १३॥
इति ॥ निरपेक्षधर्मोचितस्यापि किं पुनस्तदनुचितस्येत्यपिशब्दार्थः। तत्प्रतिपत्तिकाले निरपेक्षधर्माङ्गौकरणसमये परपरार्थसिद्धौ परेषां परार्थस्य सम्यग्दर्शनादेः प्रधानप्रयोजनस्य 15 सिद्धौ साध्यायां विषये। तदन्यसंपादकाभावे तस्माबिरपेक्षयतिधर्मोचितादन्यस्य साधोः परार्थसिद्धिसंपादकस्याभावे प्रतिपत्तिप्रतिषेधादङ्गौकरणनिवारणात् । चकारो हेवन्तरसमुच्चये। तस्यैव च गुरुत्वमिति संटङ्क इति ॥
इत्थं सापेक्षयतिधर्मयोग्यमुक्त्वा निरपेक्षयतिधर्मयोग्यं 20 वकुमाह।
नवादिपूर्वधरस्य तु यथोदितगुणस्यापि साधुशिष्यनिष्यत्तौ साध्यान्तराभावतः सति कायादि