________________
षष्ठोऽध्यायः ।
२०५
।
कल्याणाशयस्य भावारोग्यरूपमुनिपुरप्रापकपरिणामस्य । श्रुतरत्नमहोदधेः, प्रवचनमाणिक्यपरमनौरनिधेः । उपशमादिलब्धिमत उक्तलक्षणोपशमादिलब्धिसमन्वितस्य । परहितोद्यतस्य सर्वजगज्जौवजातहिताधानधनस्य । अत्यन्तगम्भौरचेतसो हर्षविषादादावतिनिपुणैरप्यनुपलब्धचित्तविकारस्य । अत एव प्रधानपरिणतेः सर्वोत्तमात्मपरिणामस्य । विधूतमोहस्थ समुत्तीर्णमूढभावतन्द्रामुद्रस्य । परमसत्त्वार्थकतर्निर्वाणवन्ध्यबौजसम्यक्त्वादिसत्त्वप्रयोजनविधातुः। सामायिकवतो माध्यस्थ्यगुणतुलारोपणवशसमतोपनौतखजनपरजनादिभावस्य । विशड्यमानाशयस्य धवलपक्षक्षपापतिमण्डलस्येव प्रतिकलमवदातमानसस्य । यथोचितप्रवृत्तेः प्रस्तावप्रायोग्यप्रारब्धप्रयोजनस्य । अत एव सात्मौभतशभयोगस्यायःपिण्डस्येव वन्हिना शुभयोगेन सह समानौ तात्मनो यतिविशेषस्य । श्रेयान् अतिप्रशस्यः सापेक्षयतिधर्म एव नेतर इति ॥ कुत इत्याह ।
प्रवचनप्रामाण्यात् ॥६॥ इति ॥ भगवदाज्ञाप्रमाणभावात् ॥ एतदपि कुत इत्याह ।
संपूर्णदशपूर्वविदो निरपेक्षधर्मप्रतिपत्तिप्रतिषेधात् ॥ ७॥ इति ॥ सुगममेव । प्रतिषेधश्च
१D P °वचनं ।
15