SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ २०४ धर्मविन्दुः सटीकः। [सू० ३ तु सामग्रिकाया विकलतायां पुनः न जातचित् म कदाचिदपौति ॥ एवं सति यत्कर्तव्यं तदाह । तस्माद्यो यस्य योग्यः स्यात्तत्तेनालोच्य सर्वथा। आरब्धव्यमुपायेन सम्यगेष सतां नयः ॥ ३॥ इति ॥ तस्मात्कारणात् यो यतिः यस्य सापेक्षयतिधर्मनिरपेक्षयतिधर्मयोरन्यतरानुष्ठानस्य योग्यः समुचितः स्याद्भवेत् तदनुष्ठानम् तेन योग्येन पालोच्य निपुणोहापोहयोगेन परिभाव्य सर्वथा सर्वैरुपाधिभिः श्रारब्धव्यमारम्भणीयम् । 10 उपायेन तद्गतेनैव । सम्यग् यथावत् एष योग्यारम्भलक्षण: सतां शिष्टानां नयो नौतिरिति ॥ इत्युक्तो यतिधर्मः। इदानौमस्य विषयविभागमनुवर्णयिष्यामः ॥ ४ ॥ इति ॥ प्रतीतार्थमेवेति ॥ 15 तत्र कल्याणाशयस्य श्रुतरत्नमहोदधेः उप शमादिलब्धिमतः परहितोद्यतस्य अत्यन्तगम्भौरचेतसः प्रधानपरिणतेः विधूतमोहस्य परमसत्त्वार्थकर्तुः सामायिकवतः विशुद्ध्यमानाशयस्य यथोचितप्रवृत्तेः सात्मीभूतशुभयोगस्य श्रेयान् 20 सापेक्षयतिधर्म एव ॥५॥ इति ॥ तत्र इति विषयविभागानुवर्णनोपचेपे । 15
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy