________________
२००
धर्मबिन्दुः सटौकः।
[सू०६८
तथा ।
प्राय ऊर्ध्वस्थानम् ॥१८॥ इति ॥ प्रायो बाहुल्येनोर्ध्वस्थानं कायोत्सर्गः ॥
तथा।
देशनायामप्रबन्धः ॥ १८ ॥ इति॥ देशनायां धर्मकथारूपयां धर्म श्रोतुमुपस्थितेष्वपि तथाविधप्राणिवप्रबन्धोऽभूरिभावः एगवयणं दुवयणं च इति वचनप्रामाण्यात् ॥
तथा ।
10
सदाप्रमत्तता ॥ १० ॥ इति ॥ सदा दिवा रात्रौ चाप्रमत्तता निद्रादिप्रमादपरिहारः ॥
तथा ।
ध्यानकतानत्वमिति ॥ १०१॥ इति॥ ध्याने धर्मध्यानादावेक एव तानश्चित्तप्रसर्पणरूपो यस्य स तथा तद्भावस्तत्त्वम् । इतिशब्दः समाप्तौ ॥
15
अथोपसंजिहौषराह। सम्यग्यतित्वमाराध्य महात्मानो यथोदितम् ।
संप्राप्नुवन्ति कल्याणमिह लोके परच च ॥ १०२ ॥ 20 इति ॥ सम्यग्यतित्वमुक्तरूपमाराध्य समासेव्य महात्मानो