________________
९७]
पञ्चमोऽध्यायः ।
१६६
अत एव ।
अपवादत्यागः ॥६५॥ इति ॥ अपवादस्योत्सर्गापेक्षयापकृष्टवादस्य त्यागः कार्यः । न हि निरपेक्षो यतिः सापेक्षयतिरिवोत्सर्गासिद्धावपवादमपि समालम्ब्याल्पदोषं बहुगुणं च कार्यमारभते किं तत्मर्गपथप्राप्तं । केवलगुणमयमेवेति ॥
तथा।
ग्रामैकरावादिविहरणम् ॥६६॥ इति ॥ ग्रामे प्रतीतरूपे उपलक्षणत्वान्नगरादौ च एका चासौ रात्रिश्चेत्येकरात्रः। श्रादिशब्दाद्विरात्रस्य मासकल्पस्य 10 च ग्रहः । तेन विहरणम् । किमुक्तं भवति । यदा प्रतिमाकल्परूपो निरपेक्षो यतिधर्मः प्रतिपन्नो भवति तदातुबद्धे काले ग्रामे ज्ञातः सन् स एकरात्रम् अज्ञातश्चैकरात्रं विरात्रं वा वसति । यथोकम् ।
नाएगरायवासौ एगं च दुगं च अन्नाए ॥
जिनकल्पिकयथालन्दकल्पिकशुद्धपरिहारिका अज्ञाताश्च मासमिति ॥
15
जाता
तथा ।
नियतकालचारिता ॥ १७॥ इति ॥ नियते हतौयपौरुषोलक्षणे काले भिक्षार्थं 20 संचरणम् । यथोकम् । भिकबापन्थो य तदयाए ति ॥