SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ धर्मबिन्दुः सटौकः । [सू०८० अथ संलेखनानन्तरमाशघातके वा विषविशूचिकादौ दोषे सति यविधेयं तदाह । विधिना देहत्याग इति ॥ १० ॥ इति ॥ विधिनालोचनव्रतोच्चारपरक्षामनशनशभभावना5 पञ्चपरमेष्ठिस्मरणलक्षणेन देहस्य त्यागः परित्यजनं पण्डित मरणाराधनमित्यर्थः । इतिशब्दः परिसमाप्तौ। इत्युक्तः सापेक्षयतिधर्मः ॥ अथ द्वितीयधर्मप्रस्तावनायाह । निरपेक्षयतिधर्मस्तु ॥ ११ ॥ 10 इति ॥ निरपेक्षयतौनां धर्मः पुनरयं वक्ष्यमाणः ॥ तमेवाह । वचनगुरुता ॥१२॥ इति ॥ वचनमेवागम एव गुरुः सर्वप्रवृत्तौ निवृत्तौ चोपदेशकत्वेन यस्य स तथा तनावस्तत्ता ॥ 15 तथा। अल्योपधित्वम् ॥ ३॥ इति ॥ अल्पः स्थविरापेक्षयोपधिर्वस्त्रपात्रादिरूपो यस्य स तथा तद्भावस्तत्त्वम् । उपधिप्रमाणं च विशेषशास्त्रादवसेयम् ॥ तथा । निःप्रतिकर्मशरीरता ॥१४॥ इति ॥ निःप्रतिकर्म तथाविधालानाद्यवस्थायामपि प्रतिकारविरहितं शरीरं यस्य स तथा तद्भावस्तत्त्वम् ॥ 20
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy