________________
१०४]
पञ्चमोऽध्यायः।
जना यथोदितं यथा शास्त्रे निरूपितम् । किमित्याह संप्राप्नुवन्ति लभन्ते कल्याणं भद्रम् । वत्याह छह लोके परत्र च इति प्रतीतरूपमेव ॥
एतदेव विवरौषुराह। क्षौरासवादिलब्योघमासाद्य परमाक्षयम् । । कुर्वन्ति भव्यसत्त्वानामुपकारमनुत्तमम् ॥ १०३॥
इति ॥ चौरं दुग्धं श्रोटजनकर्णपुटेष्वास्रवति क्षरति भाषमाणो यस्यां लब्धौ सा चौरास्रवा। श्रादिशब्दान्मध्वासवा सर्पिरास्त्रवामृतात्रवा चेत्यादिको यो लब्ध्योघो लब्धिसंघातः तमासाद्योपलभ्य परमाक्षयं परमं सर्वसुन्दरमक्षयं चानेकधोप- 10 जीव्यमानमप्यनुपरमस्वभावम् । किमित्याह । कुर्वन्ति विदधति भव्यसत्त्वानाम् उपक योग्यानाम् उपकारं सम्यक्त्वज्ञानचारित्रलाभलक्षणम् अनुत्तमं निर्वाणेकफलत्वेनान्योपकारातिशायिनमिति ॥
तथा ।
15
मुच्यन्ते चाशु संसारादत्यन्तमसमञ्जसात् । जन्ममृत्युजराव्याधिरोगशोकाद्युपदुतात् ॥ १०४ ॥
इति ॥ मुच्यन्ते परिहौयन्ते। चः समुच्चये। श्राशु शौघम् संसाराभवात् कीदृशादित्याह अत्यन्तम् अतीव संगतं युकमनः स्वरूपं यस्य स तथा तत्प्रतिषेधादसमञ्जसः तस्मात् । 20 अत एव जन्ममृत्युजराव्याधिरोगशोकाद्युपद्रुतात् जन्मना