SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ १९६ धर्मबिन्दुः सटौकः। [सू० 85कुद्यान्तरदाम्पत्यवर्जनम् ॥ ४७ ॥ इति ॥ कुछ भित्तिः तदन्तरं व्यवधानं यस्य तत्तथा। दाम्पत्यं दयितापतिलक्षणं युगलम्। कुद्यान्तरं च तद्दाम्पत्यं चेति समासः । तस्य वर्जनं वसतौ 5 स्वाध्यायध्यानादौ च न तत्र स्थातव्यं यत्र कुयान्तरं दाम्पत्यं भवतीति ॥ पूर्वक्रौडितास्मृतिः ॥ ४८॥ इति ॥ पूर्व प्रव्रज्याप्रतिपत्तिकालात्याक् क्रौडितानां प्रौढप्रमोदप्रदप्रमदाप्रसङ्गप्रभृतिविलसितानामस्मृतिरस्मरणम् । अयं 10 च भुक्तभोगान् प्रत्युपदेश इति ॥ प्रणीताभोजनम् ॥ ४६॥ इति ॥ प्रणौतस्यातिस्निग्धस्य गस्तत्स्नेहबिन्दुलक्षणस्याहारस्थाभोजनमनुपजौवनमिति ॥ अतिमात्राभोगः ॥ ५० ॥ 15 इति ॥ अप्रणीतस्याप्याहारस्थातिमात्रस्य द्वात्रिंशत्कवलादिशास्त्रसिद्धप्रमाणातिकान्तस्याभोगोऽभोजनम् ॥ विभूषापरिवर्जनम् ॥५१॥ इति ॥ विभूषायाः परौरोपकरणयोः ङ्गारस्वक्षणायाः परिवर्जनमिति । एतेषां च स्त्रोकथादौनां नवानामपि 20 भावानां मोहोद्रेकहेतुत्वाविषेधः कृत इति ॥
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy