SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽध्यायः। इति ॥ अन्यस्यात्मव्यतिरिक्तस्य गुरुग्लामबालादेर्यद् योग्यमुपष्टम्भकत्वेनोचितं तस्य ग्रहो विधेय इति ॥ एवं .च रहौतस्य किं कार्यमित्याह । गुरोर्निवेदनम् ॥ ३८॥ इति ॥ हस्तशताबहिर्टहौतस्याप्रतिक्रमणगमनागमना- 5 लोचनापूर्वकं हस्तशतमध्ये त्वेवमेव गुरोनिवेदनं दायकहस्तमात्रव्यापारप्रकाशनेन लब्धस्य ज्ञापनं समर्पणं च कार्यमिति ॥ अत एव । स्वयमदानम् ॥ ३९ ॥ इति ॥ स्वयमात्मनादानं लब्धस्यान्यस्मा अवितरणं 10 गुर्वायत्तीकृतत्वात्तस्य । ततो यदि गुरुः खयमेव कस्मैचिहालादिकाय किंचिद्दद्यात् तत्मन्दरमेव । अथ कुतोऽपि व्यग्रतया न स्वयं ददाति किं तु तेनैव दापयति तदा तदाज्ञया प्रत्तिः ॥४०॥ इति ॥ तस्य गुरोराज्ञया नियोगेन प्रवृत्तिर्दाने कार्या ॥ 15 तत्र च । उचितच्छन्दनम् ॥ ४१ ॥ इति ॥ उचितस्य समानसंभोग्यादेः साधोः। न पुनरन्यस्य तं प्रति दानानधिकारित्वात्तस्य । छन्दनं छन्दस्याभिलाषस्थानादिग्रहणं प्रत्युत्पादन कार्यम् ॥ 20
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy