SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ २६] पञ्चमोऽध्यायः। इति ॥ सर्वत्र खपक्षे परपक्षे च परोक्षं दोषाणामनाविष्करणं. परदोषयाहितायां ह्यात्मैव दोषवान् कृतः स्यात्। पद्यते च। लोश्रो परस्म दोसे हत्थाहत्थिं गुणे य गिएहन्तो । अप्पाणमप्पणञ्चिय कुणद् सदोसं च सगुणं च ॥ १ ॥ 6 तथा। विकथावर्जनम् ॥ २७ ॥ इति ॥ विकथानां स्त्रोभनदेशराजगोचराणं स्वभावत एवाकुशलाशयसमुन्मौलननिबन्धनानां वर्जनम् । एतत्कथाकरणे हि कृष्णनौलाद्युपाधिरिव स्फटिकमणिरात्मा कथ्यमान- 10 त्यादिचेष्टानामनुरूपतां प्रतिपद्यते ॥ तथा । उपयोगप्रधानता ॥ २८॥ इति ॥ उपयोगः प्रधानं पुरःसरं सर्वकार्येषु यस्य स तथा तस्य भावस्तत्ता विधेया निरुपयोगानुष्ठानस्य द्रव्यानु- 16 ष्ठानत्वात् अनुपयोगो द्रव्यम् इति वचनात् । तथा । निश्चितहितोक्तिः ॥२६॥ इति ॥ निश्चितस्य संशयविपर्ययानध्यवसायबाधदोषपरिहारेण निर्णीतस्य हितस्य च परिणामसुन्दरस्योतिर्भाषणम्। 20 अत एव पयते।
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy