________________
१७८
धर्मबिन्दुः सटोकः।
[सू० २४
तथा ।
___ स्खलितप्रतिपत्तिः ॥ २४॥ इति ॥ कुतोऽपि तथाविधप्रमाददोषात्स्खलितस्य किंचिन्मूलगुणादावाचारविशेषे स्वलनस्य विराधनालक्षणस्य 5 जातस्य प्रतिपत्तिः स्वतः परेण वा प्रेरितस्य सतोऽभ्यपगमस्तथो
दितप्रायश्चित्तागोकारेण कार्यः स्खलितकाले दोषादनन्तगुणत्वेन दारुणपरिणामत्वात्तदप्रतिपत्तेः । अत एवोकम् ।
उप्पना उप्पन्ना माया अणमग्गो निहन्तव्वा । बालोयणनिन्दणगरहणाहिं न पुणो विधौयन्ति ॥ अणागारं परं कम्म नेव गूहे न निएहवे । सुई सया वियडभावे असंसत्ते जिदन्दिए ॥
10
तथा ।
पारुष्यपरित्यागः ॥ २५ ॥ इति ॥ पारुष्यस्य तौत्रकोपकषायोदयविशेषात्परुष15 भावलक्षणस्य तथाविधभाषणादेः खपचपरपचाभ्यामसंबन्ध
योग्यताहेतोः परित्यागः कार्यः अपारुष्यरूपविश्वासमूलत्वात्सर्वसिद्धौनाम् । यदुच्यते ।
सिद्धेर्विश्वासिता मूलं यद् यूथपतयो गजाः । सिंहो मृगाधिपत्येऽपि न मृगैरनुगम्यते ॥ १ ॥ इति
20
तथा ।
___ सर्वचापिशुनता ॥ २६ ॥
I2B