________________
१७४
धर्मबिन्दुः सटीकः।
[सू० १४
तथा ।
विधेर्याशुद्धिः ॥१४॥ इति ॥ त्रिधोर्ध्वाधस्तिर्यग्दिगपेक्षया । ईर्यायाश्चमणस्य शुद्धियुगमात्रादिदृष्टिनिवेशनरूपा ॥
5
10
तथा ।
भिक्षाभोजनम् ॥ १५ ॥ इति ॥ इह विधा भिक्षा सर्वसंपत्करी पौरुषत्री वृत्तिभिक्षा चेति । तलक्षणं चेदम् ।।
यतिर्थ्यानादियुक्तो यो गुर्वाज्ञायां व्यवस्थितः । सदानारम्भिणस्तस्य सर्वसंपत्करौ मता ॥ १ ॥ वृद्धवाद्यर्थमसङ्गस्य भ्रमरोपमयाटतः । ग्रहिदेहोपकाराय विहितेति शुभाशयात् ॥ २ ॥ प्रव्रज्यां प्रतिपन्नो यस्तद्विरोधेन वर्तते । असदारम्भिणस्तस्य पौरुषघ्नौ प्रकीर्तिता ॥ ३ ॥ निःस्वान्धपङ्गवो ये तु न शका वे क्रियान्तरे । भिक्षामटन्ति वृत्त्यर्थं वृत्तिभिःयमुच्यते ॥ ४ ॥ इति ।
ततो भिक्षया प्रस्तावात्सर्वसंपत्करौलक्षणया पिण्डमुत्पाद्य भोजनं विधेयमिति ॥
15
20
तथा ।
आघाताद्यदृष्टिः ॥ १६ ॥ इति ॥ श्राघात्यन्ते हिंस्यन्ते जौवा अस्मिन्नित्याघातः