________________
पञ्चमोऽध्यायः।
१७३
तथा ।
आत्मानुग्रहचिन्तनम् ॥ १० ॥ इति ॥ क्वचिदर्थ गुर्वाज्ञायामात्मानुग्रहस्योपकारस्य चिन्तनं विमर्शनम् ।
यथा । धन्यस्योपरि निपतत्यहितसमाचरणधर्मनिर्वापी। गुरुवदनमलयनिसृतो वचनरसः चन्दनस्पर्शः ॥ १ ॥ इति ।
5
तथा ।
व्रतपरिणामरक्षा ॥ ११ ॥ इति ॥ व्रतपरिणामस्य चारित्रलक्षणस्य तत्तदुपसर्गपरीपहादिषु स्वभावत एव ब्रतबाधाविधायिषु सत्सु रक्षा चिन्तामणिमहौषध्यादिरक्षणोदाहरणेन परिपालना विधेया ॥
15
तथा ।
आरम्भत्यागः ॥ १२॥ इति ॥ श्रारम्भस्य षट्कायोपमर्दरूपस्य त्यागः । एतदुपायमेवाह ।
पृथिव्याद्यसंघट्टनम् ॥ १३ ॥ इति ॥ पृथिव्यादौनां जौवनिकायानाम् । संघद्वन स्पर्णनं तत्प्रतिषेधादसंघट्टनम्। उपलक्षणवादगाढगाढपरितापनापट्रावणानां च परिहार इति ॥
20