SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽध्यायः। १०१ एवं तर्हि कथमिति दुष्करं यतित्वं कर्तुं शक्यं स्यादित्याशंक्याह । भवस्वरूपविज्ञानात्तदिरागाच तत्त्वतः । अपवर्गानुरागाच्च स्यादेतन्नान्यथा क्वचित् ॥३॥ इति ॥ भवस्वरूपस्येन्द्रजालमृगदष्णिकागन्धर्वनगरखनादि- B कल्पस्य विज्ञानात्मम्यक्छुतलोचनेनावलोकनात् प्राक् तदनु तदिरागात्तप्तलोहपदन्यासोदिजनन्यायेन भवस्वरूपोद्वेगात् । चकारी हेत्वन्तरसमुच्चये। तत्त्वतो निर्व्याजवृत्त्या। तथापवर्गानुरागात्परमपदस्पृहातिरेकात् । चशब्दः प्राग्वत् । स्थाद्भवेदेतद् यतित्वम् । नान्यथा नान्यप्रकारेण क्वचित्क्षेत्रे काले 10 वा सम्यगुपायमन्तरेणोपेयस्य कदाचिद्भावादिति ॥ इत्युक्तो यतिः। अधुनास्य धर्ममनुवर्णयिष्यामः। यतिधर्मो विविधः सापेक्षयतिधर्मो निरपेक्षयतिधर्मश्च ॥ ४ ॥ इति ॥ प्रतीतार्थमेव । परं गुरुगच्छादिसाहाय्यमपेक्षमाणो 15 यः प्रव्रज्यां परिपालयति स सापेक्ष इतरस्तु निरपेक्षो यतिः । तयोर्धर्मोऽनुक्रमेण गच्छवासलक्षणो जिनकल्पादिलक्षणश्चेति ॥ तत्र सापेक्षयतिधर्मः ॥५॥ इति ॥ तत्र तयोः सापेक्षनिरपेक्षयतिधर्मयोर्मध्यात्मापेक्षयतिधर्मोऽयं भण्यते ॥
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy