SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽध्यायः ॥ व्याख्यातचतुर्थोऽध्यायः। अथ पञ्चमो व्याख्यायते । तस्य चेदमादिसूत्रम् । बाहुभ्यां दुस्तरो यहत्क्रूरनको महोदधिः । यतित्वं दुष्करं तद्ददित्याहुस्तत्त्ववेदिनः॥१॥ इति ॥ बाहुभ्यां भुजाभ्यां दुस्तरः कृच्छ्रेण तरोतुं शक्यः । यदत् इति दृष्टान्तार्थः । क्रूरनक्रः क्रूरा भौषण नका जलजन्तुविशेषा उपलक्षणत्वान्मास्यमकरसुंसुमारादयश्च यत्र स तथा । महोदधिर्महासमुद्रः। यतित्वं श्रामण्यं दुष्करं दुरनुष्ठेयम् । तहत् इति दान्तिकार्थः । इत्येतदारुतवन्तः । क इत्याह 10 तत्त्ववेदिनः प्रव्रज्यापरमार्थज्ञातार इति॥ अस्यैव दुष्करत्वे हेतुमाह । अपवर्गः फलं यस्य जन्ममृत्यादिवर्जितः । परमानन्दरूपश्च दुष्करं तन्न चाहृतम् ॥२॥ इति ॥ अपवर्गो मोक्षः फलं कायं यस्य यतित्वस्य 15 जन्ममृत्यादिवर्जितो जन्ममरणजरादिसंसारविकारविरहितः । तथा परमानन्दरूपः सर्वोपमातीतानन्दस्वभावः । चकारो विशेषणसमुच्चये। दुष्करं कृच्छ्रेण कर्तुं शक्यम् तद् यतित्वम् । न च नैवाङ्गतमाश्चर्यमेतत् । अत्यन्तमहोदयानां विद्यामन्त्रौषध्यादिसाधनानामिहैव दुष्करत्वोपलम्भादिति ॥
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy