SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ४६] चतुर्थोऽध्यायः । इति ॥ एतत्पुनर्यतित्वं संभवत्यस्य प्रबजितस्य सतः । कुत इत्याह सदुपायप्रवृत्तितः सता सुन्दरेणोपायेन प्रोऽहंसमोपे इत्याधुकरूपेण प्रवृत्तेश्चेष्टनात् । अत्रैव व्यतिरेकमाह अनुपायात्तु उपायविपर्ययात्युनः सिद्धिं सामान्येन सर्वस्य कार्यस्य निष्पत्तिं नेच्छन्ति न प्रतिपद्यन्ते पण्डिताः कार्य- 5 कारणविभागकुशलाः यतः पठन्ति नाकारणं भवेत्कार्यम् इत्यादि । उकविपर्यय दोषमाह । यस्तु नैवंविधो मोहाच्चेष्टते शास्त्रबाधया। स तादृग्लिङ्गयुक्तोऽपि न गृहौ न यतिमतः ॥ ४६॥ 10 इति ॥ यस्तु यः पुनरद्याप्यतुच्छौभूतभवभ्रमणशक्तिः । नैवंविधः किन्तूक्रविधिविपरौतो मोहादज्ञानाचेष्टते प्रवर्तते शास्त्रबाधया शास्त्रार्थोन्लानेन स प्राणौ तादृग्लिङ्गयुक्तोऽपि शुद्धयतितुल्यनेपथ्यसनाथोऽपि किं पुनरन्यथाभूतनेपथ्य इत्यपिशब्दार्थः। न ग्टही ग्रहस्थाचाररहितत्वात् । न यतिः 15 भावचारित्रविरहितत्वादिति ॥ इति श्रीमुनिचन्द्रसूरिविरचितायां धर्मबिन्दुवृत्तौ यतिविधिश्चतुर्थोऽध्यायः समाप्तः ॥
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy