SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ धर्मबिन्दुः सटीकः । [सू० ४५ ननु स्वपरिणामसाध्यं शौलं तत्किमस्य क्षेत्रादिशयारोपणेनेत्याशंक्याह। अतोऽनुष्ठानात्तद्भावसंभवः ॥ ४५ ॥ इति ॥ अतोऽस्मादनुष्ठानादुक्ररूपशीलारोपलक्षणात्तद्भवस्य 5 शौलपरिणामलक्षणस्य संभवः समुत्पादः प्रागसतोऽपि जायते सतश्च स्थिरीकरणमिति ॥ तथा। तपोयोगकारणं चेति ॥ ४६ ॥ इति ॥ स एवं विधिप्रवजितः सन् गुरुपरंपरयागतमा10 चाम्नादितपोयोगं कार्यत इति ॥ अथोपसंहारमाह । एवं यः शुद्धयोगेन परित्यज्य गृहाश्रमम् । संयमे रमते नित्यं स यतिः परिकीर्तितः ॥ ४७॥ इति ॥ एवमुक्कप्रकारेण यो भव्यविशेषः शुद्धयोगेन सम्यगा15 चारविशेषेण परित्यज्य हित्वा ग्रहाश्रमं ग्रहस्थावस्थां संयमे हिंसादिविरमणरूपे रमत श्रासक्रिमान् भवति स एवंगुणो यतिएकनिरुक्तः परिकीर्तित इति ॥ अत्रैवाभ्यच्चयमाह । एतत्तु संभवत्यस्य सदुपायप्रत्तितः। 20 अनुपायात्त साध्यस्य सिद्धिं नेच्छन्ति पण्डिताः॥४८॥ १ B C omit from here down to अत्रैवाभ्यच्चयमाह at the end of the commentary to sutra 47.
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy