________________
४४]
चतुर्थोऽध्यायः ।
तथा ।
. शक्तितस्त्यागतपसौ ॥ ४२ ॥ इति ॥ शक्रितः शक्किमपेक्ष्य त्यागं चार्थव्ययलक्षणं देवगुरुसञ्चपूजादौ विषये तपश्चानशनादि कारणीयः स इति ॥
तथा । क्षेचादिशुद्धौ वन्दनादिशुद्ध्या शौलारोपणम् ॥४३॥
इति ॥ क्षेत्रस्य भूमिभागलक्षणस्य श्रादिशब्दाद्दिशश्च शुद्धौ सत्यां वन्दनादिशड्या चैत्यवन्दनकायोत्सर्गकारणसाधुनेपथ्यसमर्पणादिसमाचारचारुतारूपया शौलस्य सामायिकपरिणामरूपस्य करेमि भन्ते सामायिकं इत्यादिदण्डकोच्चारण- 10 पूर्वकमारोपणं प्रव्रज्याई न्यसनं गुरुणा कार्यमिति। तत्र क्षेत्रशुद्धिरिचवनादिरूपा। यथोकम् ।
उच्छवणे सालिवणे पउमसरे कुसुमिए व वणसण्डे । गम्भौरसाणणाए पयाहिणजले जिणहरे वा ॥ १ ॥ तथा। पुब्वाभिमुहो उत्तरमुहो व दिज्जाऽहवा पडिच्छन्ना । आए जिणादो वा दिसाए जिणचेदयाई वा ॥ २ ॥
इति ॥ शौलमेव व्याचष्टे ।
असङ्गतया समशत्रुमित्रता शौलम् ॥ ४४ ॥ 20 इति ॥ असङ्गतया क्वचिदप्यर्थ प्रतिबन्धाभावेन समशत्रुमित्रता शत्रौ मिचे च समानमनस्कता शौलमुच्यत इति ॥
15