________________
प्रतिष्ठा-विधान
१४६
प्रच्छादितास्यसत्कुम्भैः सर्वतीर्थाम्बुसंभृतैः । मंत्राभिमंत्रितैः कुर्याजिनविम्बाभिषेचनम् ॥४॥
द्वादशपल्लवकलशा भषेकमंत्रः रोचनादर्भसिद्धार्थपद्मकागुरुचन्दनम् । दूर्वाङ्करयवव्रीहिश्रीखण्डरौप्यकांचनम् ॥७५॥ मालतीकुंदपुष्पाणि नंद्यावतं तिलस्तथा । गोमयं भूमिमप्राप्तं निम्नगाढा सुमृत्तिका ॥७६।। एतैर्द्रव्यैः समायुक्तसर्वतीर्थाम्बुसम्भृतैः । चामीकरप्रभैः कुम्भैः जिनाच्चों स्नापयेत्सदा ॥७७॥
मंगलद्रव्यकलशस्नपनमंत्रः अमृता सहदेवी च विष्णुकांता शतावरी । भुंगराजः शमी श्यामा सप्तौषध्यः स्मृता इमाः ॥७॥ एताभिर्युक्ततीर्थाम्बुपूर्णशुभ्रमहावटैः । मंत्राभिमंत्रितैर्भक्त्या जिनार्चामभिषिचयेत् ॥७॥
सप्तौषधिकलशस्नपनमंत्रः जातीफललवंगाम्रविल्वभल्लातकान्वितैः । सर्वतीर्थाम्बुभिः पूर्णैः कुम्भैः संस्नापयेजिनम् ॥८॥
फलपंचकलशस्नपनमंत्रः पालाशोदुम्बराश्वत्थशमीन्यग्रोधकत्वचा । मिश्रतीर्थाम्बुभिः पूर्णैः स्नापयेच्छुभ्रसद्धटैः ॥॥
छल्लपंचककलशस्नपनमत्रः सहदेवी बला सिंही शतमूली शतावरी । कुमारी चामृता व्याघ्री तासां मूलाष्टकान्वितैः ॥२॥ सर्वतीर्थाम्बुभिः पूर्ण चित्रकुम्भ वैईहै। मंत्राभिमंत्रितैजैन विम्बं संस्नापयेत्सदा ॥३॥
दिव्यौषधिमूलाष्टकलशस्नपनमंत्रः लवगैलावचाकुष्टं ककोलाजातिपत्रिका । सिद्धार्थनंदनायैश्च गन्धद्व्यविमिश्रितैः ॥४४॥ तीर्थाम्बुभिर्भूतैः कुम्भैः सौंषधिसमन्वितैः । मंत्राभिमंत्रितेजैनीप्रतिमामभिषेचयेत् ॥४५॥
सौषधिकलशस्नपनमंत्रः एवमाकरसंशुद्धिं कृत्वा शास्त्रोक्तकर्मणा ।
श्रीवर्धमानमंत्रेण जिना मभिमंत्रयेत् ॥८६॥ 'ॐ णमो भयवदो वड्ढमाणस्स रिसिस्स जस्स चक्कं जलंतं गच्छद आयासं पायालं लोयाणं भूयाणं जए वा, विवाए वा, थंभणे वा, मोहणे वा, रणंगणेवा, रायंगणे वा, सव्वजीवसत्ताणं अवराजिनो भवदु मे रक्ख रक्ख स्वाहा।'
अनेन श्रीवर्धमानमंन्त्रेण प्रतिमां सप्तधारानभिमंत्रयेत् ।
२०