________________
[है०५.१.५.] दशमः सर्गः।
८११ धत्सेजय रुच्यमव्यथ्यभव्ये वास्तव्या चेन्मेसि चित्ते तदानीम् । जन्य रम्यं मृनुना जन्यरम्यापात्याप्लायंस्फातिनापात्यमझे ॥८६॥
८६. अव्यध्येषु मुनिपु भव्या रक्षकत्वेन प्रधाना यद्वाव्यथ्या निर्भया च सा भव्या च हे अन्यथ्यभव्ये लक्ष्मि चेत्त्वं रुच्यं मनोज्ञमजयमार्यसगतं धत्से तथा चेन्मे चित्ते वास्तव्या वसन्त्यसि भवसि तदानीं सूनुना जन्यमुत्पत्तव्यं तथाङ्के ममोत्सङ्गे पात्यं पतनीयं रम्यं च कूर्चाकर्षणादिना क्रीडनीयं च । किंभूतेन सता । जन्या जायमाना रम्या मनोहरापात्यागच्छन्त्याप्लान्योच्छलन्ती स्फातिवृद्धिर्यस्य तेन त्वत्प्रसादात्पुत्रस्योत्पतिवृद्धिश्च स्तादित्यर्थः । शालिँनी छन्दः ।।
गान्धारगर्यजनगेययशोभिराप्ठा
व्याशेन वत्स भवतस्तनयेन भव्यम् । लक्ष्मीरिति प्रवचनीय ऋतोक्त्युपस्या
नीया जगत्मवचनीयगुणा तिरोभूत् ॥ ८७ ॥ ८७. लक्ष्मीस्तिरोभूत् । कीदृशी । अतोक्तयः सत्यवचनान्युपस्थानीयाआराधिका यस्याः सा। यद्वा ऋतोक्तिभिरुपस्थानीयाराध्या । तथा जगतां प्रवचनीयाः कीर्तनीया गुणा यस्याः सा । तथा प्रवचनीया वदन्ती सती । किमित्याह । हे वत्स भवतस्तनयेन भव्यमुत्पत्तव्यम् ।
१ वी त्सेजय रु. २ ए 'व्यसरफा ३ सी स्फाटिना. ४ ए ययन. ५ एमिसप्लान्याशैन. ६ ए येयेन. ७ सी ऋत्योच्यु.
१ए कक्षो प्र. २ वी गते ध° ३ ए तथी समो'. ४ सी मान्या २. ५ ए °स्य व. ६ ए वी "त्तिवृदि. ७ ए श्च तादि'. ८ एलिनी छ'.