________________
७९०
व्याश्रयमहाकाव्ये
[कर्णराजः]
न शक्तमास्थातुमशान्तदान्तः श्रीवेश्म मे स्पष्टमदासिताचैः। ततस्त्वमच्छन्नमदस्तपूर्णबलिर्मयाँ स्पाशित एवमन्ये ।। ५७ ।।
५७. श्रीवैश्मास्थातुमाश्रयितुं न शक्तं न शक्यते स्म । कैः कैरित्याह । अशान्तदान्तैरजितेन्द्रियतपःक्केशासहैस्तथा मे मह्यं स्पष्टमदासिताचैरदत्तपूजैश्च । तत्तस्माद्धेतोरच्छन्नं प्रकटमदस्तपूर्णवलिमहमदत्तपर्याप्तपूजोपचारस्त्वं मया स्पाशित एव भक्षणाय गृहीत एवेति मन्ये । यद्यपि राज्ञ: स्पानं भावि तथाप्यनेनातिस्वाधीनत्वेन कृतमिव संभावितमित्यतीते क्तः ॥ रक्षोभिराच्छादितपूरितं प्राक् संज्ञप्तविश्वैर्दमितामरेहि । विश्वस्तया पातुमिदं श्रियोक आज्ञापितोहं शमितान्यशक्तिः॥५॥
५८. इदं प्रत्यक्षमोको लक्ष्मीगृहं पातुं रक्षितुं विश्वस्तया मयि कृतविश्वासया श्रियाहमाज्ञापितो नियुक्तः । यतः कीदृशम् । प्राक्पूर्व संज्ञप्तविश्वैर्मारितलोकैर्दमितामरैः परिभूतदेव रक्षोभिर्हि स्फुटमाच्छादितपूरितमाकान्तं संभृतं च । यतः कीदृशोहम् । वलिष्ठत्वेन शमितान्येपां राक्षसादिशत्रूणां शक्तिर्येन सः ।।
कथमाज्ञापित इत्याह ॥ जप्तापि मन्त्रैर्जपितापि पुष्पैस्तूर्ण भवाम्युच्छसिता न तस्य । न ते बलिं यस्त्वरितो दिशेत्माग्वलिः स भावी रुषितस्य ते च
॥ ५९॥ १ ए कमस्या'. २ ए °वेशने स्प. सी वस्म मे. ३ ए लि '. ४ वी या स्फाशि. ५ ई साभिम'. ६ ए जप्तापि. ७बी पुष्फैस्तू. ८ ए मुच्छसि । ९९ वी ऋषि.
१सी वेस्मासा. २ सी शक्य'. ३ बी न्तदीतर. ४ बी ततस्तस्मा. ५ ५ राक्ष स. ६ ए सी डी सह.