________________
[ है० ४.४.६९.]
दशमः सर्गः।
७८९
ध्वान्ताकृतिबढिंडढाचलेन्द्रक्षुब्धाम्बुधिम्लिष्टविरिब्धकण्ठः । स पारिवढ्यं नु दधन्नृपं स्म दुःस्वान्त इत्याह समाधिलग्नम् ।।५५।।
५५. स पुमान्समाधिलग्नं ध्यानलीनं नृपमिति वक्ष्यमाणनीत्याह स्मात्रवीन् । कीटक्सन् । ध्वान्ताकृतिः । तथा बाढं भृशं दृढो बली स्थूलो वा योचलेन्द्रो मन्दराद्रिस्तेन क्षुब्धो मथितो योम्बुधिस्तस्येव म्लिष्टमस्पष्टं विरिब्धं स्वरो यस्य स तथा कण्ठो गलो यस्य सः । तथा दुःस्वान्तो दुष्टचेतास्तथा पारिवठ्यं नु प्रभुत्वमिव दधत्स्वामीव निःशङ्क इत्यर्थः ।। फाण्टं ने मिन्नो विदितोसि मिन्नं मम क्रुधा मेदितमीग्रंया च । अमेदितव्याज तव प्रमिन्नं वपुः किमत्तुं शकितं माँ न ॥ ५६ ॥
५६. प्रमेदितं निग्धीकर्तुमारब्धमाश्रितमित्यर्थः । व्याजं तपोजपरूपं छद्म येन हे प्रमेदितव्याज फाण्टं न्वनायाससाध्यमश्रपितमपिटमुदकसंपर्कमात्राद्विभक्तरसमौषधं कपायादि फाण्टं तदिव मिन्नः स्निग्धोत्युपचित इत्यर्थः । असि त्वं मया विदितो दृष्ट इत्यर्थः । अतश्च मिथो विरुद्धाङ्गोपचयतपोध्यानावलोकेन तव मायित्वावगत्या मम क्रुधा का मिन्नमुपचितमीग्रयों चाक्षमया च मेदितमतश्च प्रमिन्नमुपचेतुमारब्धं तव वपुरत्तुं किं मया न शकितं न शक्ष्यते । अत्र "वा हेतुसिद्धौ पः" [५.३.२] इति भविष्यति क्तः। चेन्मम कोपेन मिन्नं तदा त्वद्वपुरन्तुं शक्ष्यत एवेत्यर्थः ।।
१ए ढवृढा. २ए विरप्तक'. बी विरब्ध'. ३ °प स्व दुः. ४ डी दुःखान्त. ५ ए नु सिन्नो. ६ ए या त ॥.
१°न् । कन्ता. २ ए थाढ. ३ ए तोयोधि. ४ ए बी विरन्ध. ५ सी डी लोस्य. ६ सी डी दु.खान्तो. ७ ए रत्व मा. ८ ए सज . ९ ए म जेन १० ए °समोप. ११५ °मीर्षया. बी 'मीयया. १२डी या वाक्ष.१३ ए रतु किं. १४ ए शष्यते. डी शक्यते. १५ ए °ते। तत्र. १६ ए रत्व शभ्यतः