________________
७३८ व्याश्रयमहाकाव्ये
[कर्णराजः] यच्चोलकमधास्तन्नाद्यापि कन्यात्वमत्यगाः ।
आर्तेवास्था यदेव त्वं स्मरस्तत्त्वां शरैरदात् ॥ १४५ ॥ १४५. यत्त्वं चोलकं कन्योचितं सर्वाङ्गीणकञ्चुकविशेपमेधाः परिधानेनाधारयस्तैज्ज्ञायते त्वमद्यापि कन्यात्वं नात्येगा नात्यक्रमीः । तथा यत्त्वमत्र शैत्यरम्यत्वादिसुखकारिसर्वगुणोपेतकदलीगृह आतेव पीडितेवास्थास्तज्ज्ञायते त्वां स्मरः शरैरदादखण्डयत् । अत्र हि स्थाने कामाँति मुक्त्वान्या पीडा न स्यादेवेत्यर्थः । एतेन मनोभीष्टः कोपि ते दुर्लभोस्तीति द्रढितम् ।। अथ दुर्लभमेव नामादिना स्पष्टं पृच्छति ॥ सुभगं के दृशापास्त्वं येन तेभूद्दशेदृशी।
अङ्गोष्माश्रूण्यधासीयच्छ्वासोधादधरच्छविम् ॥ १४६ ॥ १४६. त्वं कं सुभगं वल्लभं दशापा अपिवः किं नामाद्युपेतं सुभगं त्वं सतर्षमपश्य इत्यर्थः । येन सुभगेन हेतुना ते तवेदशी दशावस्थाभूद्यत्कि यदङ्गोष्माङ्गसंतापोभूणि नेत्राम्बून्यधासीदपाद्गण्डस्थलोपरि पतितान्यशोपयदित्यर्थः । यच्च श्वासो दुःखान्निश्वसनमधरच्छविं सरसत्वरूपामधरशोभामधादशोपयन् ।। अथोद्यानसंभविनावन्यावपि व्यथाहेतू आशय पृच्छति ।। किं वा किंपाकमच्छासीरघासीचेह दारुणम् ।
अच्छा अघ्रा अयुक्पणं वाथ यत्सुक्षु दूयसे ॥ १४७॥ १ए त्वसत्य. २ ए °दव त्व. ३ ए सीप्वह ४ ए यसुभ्र. १बी डी चितस. २ ए ‘मधा प. ३ ए स्तद्जाय'. ४ थी डी ते वत्तम. ५ ए लरगा. ६ वी डी पते क०. ७ ए मातमु. ८ सी ति ॥ . ९५ यथा.