________________
व्याश्रयमहाकाव्ये
[कर्णराजः]
१४१. हे सुभ्र भीरदृष्टपूर्वमदर्शनोत्था भीति: की त्वां मा स्म प्रोर्णोद्ध्यापन् । मा स्म वा । वा समुच्चये । मा स्म च मयि विपये स्वमात्मानं त्वं प्रोर्णोराच्छादयेर्यथावस्थितमात्मानं प्रकटयेग्त्यिर्थः । यतस्ते मूर्तिराकृतिरेव संशयमद्भुतगुणत्वादिविपयं संदेहं तृणेव्यपनयति तथोचैरुन्नतं कुलं वंशं ब्रवीति च । आकृतिरेव त्वदीयं स्वरूपं वंशं चोन्नतं वक्तीति तवात्मनोपह्नवो निरर्थक एव यत इत्यर्थः ॥
मा स्म प्रोर्णोत् । मा म प्रोर्णोः । अत्र "न दिस्योः" [६१] इति-और्न ॥ तृणेढि । इत्यत्र "तृह भादीत् " [ ६२ ] इति-ईत् ॥ प्रवीति । इत्यत्र "चूतः परादिः" [६३ ] इति-ईत् ॥
वोभवीष्यप्सराः किं किं बोभोष्युद्यानदेवता ।
यचे वर्वति लावण्यं दिव्यतां वावदीति तत् ॥ ४२ ॥
१४२. किं त्वमप्सरा देवी बोभवीष्यत्यर्थं भवसि किं वोद्यानदेवता बोभोषि । यस्माद्यत्ते लावण्यं वर्वय॑तिशयेन वर्तते तलावण्यं ते दिव्यतां स्वर्गभवत्वं वावदीति ॥
तौषि क वंशे काम्वेति स्तौषि तातेति रौषि च ।
किं तवीष्यत्र के वा संस्तवीषि न रवीषि किम् ॥१४३॥ १४३. क क्शे तौषि वर्तसे । क कस्यां खिमिम्बेति मातेति
१एन किं वा सस्त.
१ए 'रष्ट'. २ बी "मदर्श. सी मदर्श. ३ ए 'दयोर्य. सी डी 'दयपया'. ४ ए दिश्यो. '. ५ ए औन ॥ तृ. ६ ए °यानम्मे .