________________
ब्याश्रयमहाकाव्ये
[कर्णराजः] १२२. नृपः कर्णो रत्नानि जयकेशिना प्राभृतार्थ प्रेषितांश्चित्रकरेणोपढौकितान्मणीनुपायत स्वीकृतान्काञ्चनमुपायंस्त च । ततो नृपो रत्नानि काञ्चनं च गृहीत्वास्मै चित्रकृतेदित ददौ । ततश्चासौ चित्रकृत्पास्थित प्राचालीत् । तथा संमदं कार्यसिद्धिजं हर्पमधित धार ।। उपायत उपायंस्त । इत्यत्र "वा स्वीकृतौ” [४०] इति सिंच किद्वद्वा ॥ प्रास्थित । अदित । अधित । इत्यत्र "इश्च स्थादः" [४१] इति सिच् किद्वतत्संनियोग इकारश्च ॥
अत्रान्तरे च पुष्पेषुः पुङ्खान्माष्टी मृजन्निघून् । मार्जन्धनुरधिज्यत्वमनेपीन्यधुवीदपि ॥ १२३ ॥ १२३. अत्रान्तरे च पुष्पेपुः स्मरो धनुरधिज्यत्वमनैषीदारोपयदित्यर्थः । न्यधुवीदपि ज्याकर्षणाकम्पयच्च । कीहक्सन्पुङ्खाब् शरपत्राणि मार्टा करस्पर्शेन समारचनशीलस्तथेपून्मृजन्नुत्तेजनेन निर्मलीकुर्वन् । तथा धनुमाजश्विरमव्यापारणादुद्भूतस्य रजोमलादिसङ्गस्यापनयनेन निर्मलयन् ॥ मार्टा । इत्यत्र "मृजोस्य वृद्धिः' [४२] इति वृद्धिः ॥ । मार्जन् मृजन् । इत्यत्र "ऋतः स्वरे वा" [४३] इति ऋतो वा वृद्धिः ॥
१ ए "प्पेपुन्मुखान्मार्टी सृज. सी पेप्पुषान्मा. २ ए पीन्नधु .
१५ प्रकर्षिता. २ ए रेणौप'. ३ ए य स्वी'. ४ एवान्काचमुपाय च मु. ५ एते दडी ते आदि. ६ सी पाय'. ७ ई सिच कि. ८ डी 'त । आदि. ९ए पुखा. १० सी डी जनुत्ते'. ११ ए जिश्चि. १२ सीडी दिः । मा. १३ बी इत्यस्य वृ. १४ ए स्वरो वा.