________________
[है० ४.३.३९.] नवमः सर्गः।
७२५ यथा समगतोमेशे श्रीः कृष्णे समगस्त च ।
संगसीष्ट त्वयि तथा सा शुभैः संगसीष्ट च ॥ १२० ।। १२०. यथेशे शंभावुमा गौरी समगत संबद्धाभूद्यथा कृष्णे श्रीः समगंस्त च तथा सा कन्या त्वयि संगंसीष्ट संबद्धीभूयात्तथा शुभैः पुत्रलाभादिभिः संगसीष्ट च ।।
समगत समगस्त । संगसीष्ट संगसीष्ट । इत्यत्र "गमो वा [३७] इति वा किद्वत् ॥
मा ते व्याहत विश्नोत्रेत्युक्त्वा चित्रकृति स्थिते ।
रागमन्तर्गतं राज्ञो रोमोहम उदायत ॥ १२१ ॥ १२१. राज्ञः कर्णस्य रोमोद्गमो रोमाञ्चोन्तर्गतं रागमुदायतासूचयत् । दोषाविष्करणं चात्र धैर्यगाम्भीर्यगुणान्वितस्य राज्ञो रागदोपस्य प्रकटनात् । क सति । चित्रकृति स्थिते । किंकृत्वा । उक्त्वा । किमित्याह । हे राजन्नत्र मघणल्लाविषये ते तत्र विनोन्तरायो मा व्याहत मा व्याघातं कार्षीदिति ॥ व्याहत । इत्पन्न "हनः सिच्" [३८] इति सिंच किद्वत् ॥ उदायत । इत्यत्र "यमः सूचने" [३९] इति सिच् किद्वत् ॥ उपायत नृपो रत्नान्युपायंस्त च काञ्चनम् । अदितासै गृहीत्वासौ प्रास्थिताधित संमदम् ॥ १२२॥
१ डी म् । आदि.
१ वी मो विति. २ ए कृत्वेक्त्वा. सी डी कृत्वेत्युक्त्वा. ३ वी सी डीई ये त.' ४ ई सिच कि. ५ वी सी डी त । अत्र.