________________
[है. ४.३.२९.] नवमः सर्गः।
७२१ शयिता पविते तल्पे स्मरवाणप्रधर्षिता ।
सा पृच्छति तवोदन्तमुदण्डयितपक्षिणः ॥ ११२ ॥ ११२. सा कन्योदीच्या उत्तरस्या दिशो डयिता उड्डीना ये पक्षिणस्तान्कर्णपादिमी आगता इति तवोदन्तं कुशलवार्ता पृच्छति । किंभता सती। स्मरत्राणप्रधर्षितो कामालैः परिभतात एव पविते पवित्रे तल्पे शयिता ॥
प्रस्वेदिताप्रमेदिता धैर्याप्रक्ष्वेदितापि सा ।
न मर्पितवती तापं सेवित्वाप्यम्बुजस्थितिम् ॥ ११३॥ ११३. सा कन्याम्वुजस्थितिं कमलपत्रशय्यायामवस्थानं सेवित्वापि तापं स्मरोद्रेकोत्थं संतापं न मर्षितवती न क्षान्तवती पद्मसेवया तस्यात्यन्तं समुल्लासात् । कीदृशी। प्रस्वेदिता सात्विकविकारोजृम्भणात्स्वेदं क्षरितुमारब्धा । तथा धैर्याप्रक्ष्वेदितापि धैर्येणामुक्ताप्यप्रमेदितामेदुरा कृशेत्यर्थः ।।
डयित । शयिता । पविते । प्रधर्पिता । अप्रक्ष्वेदिता । प्रस्वेदिता । अप्रमेदिता । इत्यन्न "न ढी" [२७] इत्यादिनों को न किद्वत् ॥
मर्पितवती । इत्यत्र "मृषः क्षान्तौ" [२८] इति ने किद्वत् ॥ सेविस्वा । इत्यन्न “क्रवा” [ २९ ] इति किन्न ।
१ डी ताप से.
१ई उद्दीना २ ई तात. ३ ए पठिते. ४ सी वित्रे. ५ एई न. ६ बी सी डी पद्मासे'. ७ ए स्वेवि. ८ सी डी "यितः । श. ९ए __ 'ना को न. १० ए न कि मृद. ११ एति विकि'.