________________
ब्याश्रयमहाकाव्ये
{ कर्णराजः] स्यन्वा स्वेदमियं स्कन्वा मा गादिति सखीजनैः ।
अनास्कन्धाभ्युपस्कद्य पयः प्रस्यन्ध धार्यते ॥ ११४ ॥ ११४. इयं कन्या खेदं प्रस्वेदं स्यन्त्वा क्षरित्वात एव स्कन्त्वा परिशुष्य मा गान्मा विने(न ?)शदित्यर्थः । इति हेतोः सखीजनैर्धार्यते जीव्यत इत्यर्थः । किं कृत्वा । अनास्कन्द्यापरिशुष्य । स्नेहातिरेकादाहदयीभूयेत्यर्थः । अत एवाभ्युपस्कद्याभिमुंख्येन समीपे गत्वा तथा पयो जलं प्रस्यन्द्य क्षरित्वा ॥
प्रस्यद्यालं पयः सख्यो गुधित्वालं जलाया ।
क्षुधित्वालं क्लिशित्वालमुदित्वा सेति मूर्छति ॥ ११५ ॥ ११५. सा कन्या मूर्छति । कि कृत्वा । उदित्वोक्त्वा । किमित्याह ।हे सख्यः पयः प्रस्यद्यालं जलश्रा(सा)वणेन सृतं तथा जलाया छिन्नवाससा करणेन गुधित्वालं परिवेष्टनेन सृतं तथा क्षुधित्वा बुभुक्षयालं तथा क्लिशित्वा युष्मक्लेशेनालमिति ॥
हृद्युषित्वा कुषित्वास्त्रं मृदित्वा क गच्छसि ।
अमृडित्वा रुदित्वेति सख्योस्याश्चुक्रुशुः स्मरम् ॥११६ ॥ ११६. अंमृडिवासुखं कृत्वा रुदित्वा चास्याः सख्यः स्मरं चुकुंशुः । कथमित्यहिं । रे स्मर क त्वं गच्छसि । किं कृत्वा हृद्यस्या
१डी त्वामु क. २ ए वा ऋचित्वेति सख्यास्या.
१ डी 'प्य । हा. २ बी 'दाद्रह. ३ ए त्यर्थात. ४ डी मुखेन. ५ वी पेन ग. ६ई दित्ते । कि'. ७ एणे निस. ८ ए असत्वित्वा'. ९डी कुमः । क. १०ई। म. ११ ए र कथं ग. सी डी र कथं ग.