________________
[हे ० ४ ३ २२]
नवमः सर्गः।
७१७
सौभाग्यदात्कापि वरे चित्तस्यानिवशनाद्विकार, सरागप्रेक्षितादिभिः स्मरविकृतिभिन सस्वजे । अत एव स्मराख्यायां कामप्रधानवार्ताया नष्ट्वा याति । तथालिनर्मणि सखीना हास्यकर्मणि नवास्ते ।।
भक्त्वापाई ध्रुवं भत्श प्रेक्षते पुरुषं न सा ।
आस्ते कौमारमर्नित्वा ऋतित्वापि हि यौवनम् ।। १०३॥ १०३. सा मयणल्ला पुरुषमस्वानुरूपत्वान्न प्रेक्षते । कि कृत्वा । अपाङ्गमक्षिप्रान्त भक्त्वा कुटिलीकृत्य ध्रुवं भक्त्वा च । अतश्च सास्त । कि कृत्वा । यौवनमृतित्वापि प्राण्यापि हि स्फुटं कौमारं वाल्यमर्तित्वेव । इबो लुप्रोत्र ज्ञेय. ॥
अकर्शित्वाप्यमर्पित्वापीपून्किरति मन्मथे । तृषित्वास्यां कृशित्वाथ मृपित्वास्थुः स्फुटं न के ॥१०४॥
१०४. के राजपुत्राः स्फुटं नास्थुः । कि कृत्वा । अस्यां तृषित्वा साभिलापीभूयात एव कामातिरेकात्कृशित्वा कृशीभूयाथ मृपित्वा मन्मथेपूनेव क्षान्त्वा च । क सति । मन्मथे शरान्किरति क्षिपति । कि कृत्वा । अकर्शित्वाप्यतनूभूयापि वलिष्ठीभूयापीत्यर्थः । तथामर्पित्वापि । कुपित्वापीत्यर्थः । यद्ययंतितरां स्मरः प्रहरति तथाप्यस्या अनिच्छुत्वादस्या अभिलापुका: सर्वेपि राजपुत्राः स्मरशरान्क्षान्त्वैवस्थुिः । न कोपि प्रतीकारोजनीत्यर्थः ।।
१ ए भक्तापा. २ ए व भुक्त्वा . ३ ए न केः ॥
१ ए क्विापि. २ सी स्याविवे'. ३ ए °कारी सौ. ४ ए दिमि स्मरे. ५ ए भुक्ता च. ६ ए ई वा कु. ७ ए प्यत. ८ ए °वास्थ. । न.