________________
व्याश्रयमहाकाव्ये
[कर्णराजः ]
१००. इह चन्द्रपुरे जयकेशी नाम राजास्ति । कीन्छ । ओजसा प्रतापेन बलेन वा द्विपां प्रोणविता छादकोत एव कीया दिशां प्रोणुविता व्यापकोत एव च यं जयकेशिनं रोदसी स्तुत. श्लाघेते वित्तश्च जानीतश्च ॥
कन्या जयति तस्यैषा मयणल्लेति नामतः ।
समीधेस्या न दध्वंसे कान्तिर्निन्ये जगन्मुदम् ॥ १०१ ॥ १०१. नामतो मयणल्लेति मयणल्लाख्यैपा चित्रपटस्था तस्य जयकशिनः कन्या पुत्री जयति सर्वस्त्रैणादुत्कर्षेणास्ति । यतोस्या: कन्याया: कान्तिः कमनीयता समीये दिदीपे न दध्वंसे न क्षीणा । अत एवास्याः कान्तिर्जगन्मुदं हर्प निन्ये प्रापयत् ॥ प्रोर्णविता । प्रोणविता । इत्यत्र “वोर्णोः" [१९] इतीचा द्वित् ॥
स्तुतः । वित्तः । अत्र “शिदवित्" [२०] इति शिद् हिद्वत् ॥ अविदिति किम् । जयति ।।
समीधे । निन्ये । अत्र "इन्ध्यसम्" [२१] इत्यादिना परोक्षा किद्वत् ॥ इन्ध्यसंयोगादिति किम् । दध्वंसे ॥
यौवनेनाथ सस्वञ्ज सा विकारैर्न सस्वने । नष्वा याति स्मराख्यायामास्ते नंष्ट्वालिनमणि ॥ १०२ । १०२. अथ सा मयणल्ला यौवनेन सस्वा आलिङ्गिता परं
१ए लिमम.
१ एई ह पु. २ ए प्रोर्णवि. ३ ए ययण'. ४ डी दिहीपे. ५एता।. ६ ई शिदिप्ति. ७ए शिडदित् ॥. ८ए अत्रेध्यस. बी मन्धस. ९ ए दध्वसो ॥.