________________
[है. ४.३.१३ ]
नवमः सर्गः।
७१३
तत्रेक्ष्य लिखितां कन्यामुत्कोभूद्राडुवाच च ।
ईदृशन्नं मुवै रत्नगर्भाप्येवं न चिन्तयेत् ॥ ९५ ॥ ९५. तत्रालेख्यपट लिखितां कन्यौमीक्ष्यालोक्य गवर्ण उत्कः कन्यां प्रत्युत्कण्ठितोभूत्तथोवाच चें। यथेहक्सर्वोत्कृष्टं रत्नं कन्यारूपमहं सुवै जनयितुं समर्था मतान्तरेणात्र समर्थनाया पञ्चमी । एवं कर्मतापन्नं रत्नगर्भाग्यस्तिामरत्नगर्भा योषिदादीनि रत्नानि गर्भे यस्याः सापि भूरपि न चिन्तयेन् । संभावनेत्र सप्तमी ॥ अभूत् । इत्यत्र "भवतेः सिलुपि" [१२] इति न गुणः ।। सुवै । अत्र "सूतेः पञ्चम्याम्" [१३] इति न गुण ॥
प्रमोमुदीति वंशः को जुबत्या श्रियमेतया। वन्धुतां यन्ति के चास्या नाम तेजुहवुश्च किम् ॥९६ ॥ ९६. अनया कन्यया कृत्वा को वंशः प्रमोमुदीत्यत्यर्थ प्रमोदते । यतो रूपादिगुणातिशयेन वंशस्यैव श्रियं शोभा जुत्या ददत्या । तथास्याः कन्याया: के च वन्धुतां स्वजनतां य॑न्ति प्राप्नुवन्ति तथा ते वन्धवोस्या: किं नाम(मा)जुहवुर्ददुः ।।
अधियानस्तदेतस्या अधीयानोन्यदप्यहो । ब्रूह्ययानि यथा तोपं वसु ते जुहवानि च ॥ ९७ ॥
१ई तत्रक्ष्य. २ ए 'त्रेख्य लि'. ३ ए सी डी धुता य. ४ सी डीम् ॥ एतया. ५ ए यया . ६ ए वस्तु ते. १५ न्यामेख्यालो.ई 'न्यामेक्ष्या २ डी च । ईदृ.३ एर्था गता.४ डी प्यास्ताम ५ ए वी सी डी दी र. ६ ए सिजुपि ७ ए सूने प. ८ ए यति प्रा.
%
९०