________________
[है० १.२.३७ ] प्रथमः सर्गः। श्रान्तम् । अहो इत्याश्चर्ये । जान्विहेत्यत्र उ इति संवोधने । हे लोका आश्चर्य तस्यापि मारतेरपीह पुर आन्तादन्तं मर्यादीकृत्याभिव्याप्य वा श्रीविगेपविलोकनाय जिगमिपोर्गन्तुमिच्छोः सतो जानु रुजेत् खिद्येत । मभावने सप्तमी । इदमहं संभावयामीत्यर्थः । एतेनास्य लकासकाशादपि महत्तमत्वोक्ति. ।। आन्तमित्यत्र क्रियाविशेषणे द्वितीया [ २. २. ४१.] ॥ अमी अमुमुईघः । इत्यत्र “अटोमुमी" [३५] इस्यसंधिः ॥ अ एहि । आ एवं नु मन्यसे । । ईक्षिताः। ई ईदृशि । उ उत्तिष्ठ । ऊ ऊहस्व । ए अस्मिन । ओ अलम् । इत्यत्र "चादिः स्वरोनार" [३६] इत्यसंधिः ॥ स्वरे पर इति प्रत्यासत्तस्तनिमित्तकसंधिप्रतिपेधादिह दीर्घत्वलक्षणः संधिर्भवत्येव । जान अरजत ॥ फेचित्तु चाउचादिस्थानस्याचादिरूपत्वात्स्वरनिमित्तकमपि संघिमिरन्ति । जान्विह ॥ अनाटिति किम् । आन्तम् ॥ भहो आन्तम् । इत्यत्र "ओदन्तः" [३०] इत्यसंधिः ॥
उ इत्य इति विति' चाहो इत्याह्वायके गुरौ । विभो इति प्रभविति चाहात्र विनयी जनः ।। ३३ ।।
३३. मुगम. । नवरं सर्वत्र उ इति संवोधने । आगच्छेत्यादिका च क्रिया सर्वत्राध्याहार्या । संवोध्यानां च बहुत्वादहूनि संवोधनपदानि । तथा विभो इति प्रभवितीत्येतयोः प्रत्युत्तरवाक्ययोरादिशेत्यादिक्रियाध्याहार्या । उपलक्षणत्वाद्भगवन्नित्यादीन्यपि गुरुसंवोधनपदानि ज्ञेयानि । प्रत्युत्तरदायिनामनेकत्वात् । इतिः सर्वत्र वाक्यपरिसमाप्तौ ॥
१ ए एफ ति वाहो.
३ डी "बोधनीयाना.
१ सी डी `त्तमोक्ति ।. २ एफ र उ इति स. ४ एफ नि छयानि । त. ५ सी डी ति स.