________________
२६
व्याश्रयमहाकाव्ये
[मूलराजः]
दिकं दृनात्यन्तं रुष्टा पादपातादिकां प्रसादनक्रियां कुर्वाणेपि मानिनीत्वाद्यदा कथमपि न प्रसीदति तदा तत्सखीपार्धात्स तां प्रसादयति । तां च सखीमनुनया) पत्यपगधं निगूहुयन्ती मानिनी रुयाह व्रते । यथा । अ इति संबोधने । हे सखि एहि मद्वचःश्रवणाय मत्पार्श्वमागच्छ । इ इति संबोधने । हे सखि अमूं विप्रकृष्टवर्तिनी सपत्नीमञ्चति गच्छति यस्तस्यामुमुईचोस्य प्रियस्य कण्ठेमी प्रत्यक्षवर्तिनो नखास्त्वयेक्षिता दृष्टाः । एवं तया प्रत्यक्षमपराधे दर्शितेपि यावदद्यापि सखी किचिन्न प्रतिवदति तावन्मानिनी मदुक्तं सत्यमप्येषा नाङ्गीकरोतीति कोपाविष्टाह । उ उत्तिष्ठ यद्या एवं नु मन्यस इति । उ इति संवोधने । आ निरनुबन्धः पूर्ववाक्यार्थवेपर्गत्ये वर्तते । पूर्व यत्त्वया पत्यपराद्धं मनितं तद्यदीदानीमेवं नु मन्यसे नु निश्चितमन्यथा भन्यसे तदा हे सखि उत्तिष्ट मत्पादिच्छ पूर्व मनितस्यार्थस्य केनापि द्रव्यलोभादिना हेतुनान्यथाभापिण्या त्वयापि न प्रयोजनमित्यर्थः ॥ एवं परुषोक्तौ सखी मा रुपदिति विचिन्त्य पुनस्तां साम्नाह । ऊ ऊहस्खेत्यादि । ऊ इत्यक्षमायाम । पतिमक्षाम्यन्ती प्राह । ए इति संबोधने । हे सखि त्वमूहस्व त्वमेव स्वचेतसि पर्यालोचय । ई इति खेदे । खिचेहमीदृशि व्यक्तमत्यन्तमपगद्धर्यस्मिन पत्यो विपये कथं रतिः प्रीतिः स्यात् । न कथमपीत्यर्थः। ओ इति संवोधने । हे सखि तत्तस्माद्धेतोरनेन पत्यालम् । सृतमिति ।।
न जानू अरुजल्लवां भ्रमतो यस्य मारुतेः।
अहो आन्तं जिगमिपो रुजेत्तस्यापि जान्विह ॥ ३२॥ ३२. जानू, इत्यत्र उ लोकसंवोधने । हे लोका यस्य मारतेईनूमतो हां रावणपुरी भ्रमतो दनाय पर्यटत: सतो जान्वष्ठीवानारजन्न
। सी 'मन डी 'मान'. २ डी दा कदा क. ३ सी एफ यन्ती मा. । एफ . ५ सी एफ ५ पुरु. ६ एफ 'ला सोमलवचता सा पाए। - एफ ली .
-
-
-