________________
[हे०४.२.११२]
नवमः सर्गः।
र्थस्थस्य क्षेमराजस्य सेवार्थ कर्णो देवप्रसादाय क्षेमराजपुत्राय दधिस्थली ग्रामं ददौ । यतः किभूतायाप्रमाद्यते क्षेमराजसेवादौ सोद्यमाय तथा शाम्यत उपशान्ताय तथा दाम्यते जितेन्द्रियाय गुरुशुश्रूपाक्लशसहाय वा ॥
नांक्षाम्यद्भाम्यदश्राम्यत्सैन्यः कर्णोभिधामपि । द्विषतां फेननिष्ठीवनासग्निष्ठेवने दिशन् ॥ ७८ ॥ ७८. कर्णो द्विपतामभिधामपि नाक्षाम्यहिपः समूलमुन्मूलितवानित्यर्थः । कीहक्सन् । भ्राम्यत्सर्वासु दिक्षु प्रसरदश्राम्यदखिद्यमानं सैन्यं यस्य सोत एव द्विपतां फेननिष्ठीवनामृमिठेवने रणेत्यन्तं खेदनान्मुखेन फेनोद्वमनरक्तोद्वमने दिशन्ददन् ।।
असीवनं कीर्तिपटं दिक्सेवन नयामि ते । नयावश्च नयामश्चेत्यूचुस्तं के न भुभूजः ॥ ७९ ॥ ७९ तं कर्ण के भूभुजो नोचुः । कथमित्याह । असीवनं सेवनरहितमस्फुटितमेकखण्डं वेत्यर्थः । ते कीर्तिपटं दिसेवनं दिग्भिः सह वन्धनं नयामि त्वद्यश: सर्वत्राहं विस्तारयामीत्यर्थः । आवां नयावो वयं नयामश्चेति ॥
शाम्यते । दाम्यते । अताम्यतः । अश्राम्यत् । भ्राम्यत् । अक्षाम्यत् ।
अप्रमाद्यते । अन "शम्" [११] इत्यादिना दीर्घः ॥
निष्टीवन निष्ठेवने । असीवनम् सेवनम् । इत्यत्र "ष्ठि" [११२] इत्यादिना वा दीर्घः ॥
१ ई नाहयाम्य
१ सी नाकाम्य° २ ए वी सीडी मस्फटि'. ३ ए त्यर्थकीस्तेकी'. ४ ए पटां दिक्सव. ५ ए वी त्यर्थ । आ. ६ बीते । आना ७ ए निष्टीव.