________________
६७८
व्याश्रयमहाकाव्ये
[भीमराजः]
बलं भीमसैन्यं येन । यद्वा भीमचमूलेशेनानिन्दितमविध्वस्तं च वलं यस्य सः । तथा कलचुरि पाञ्चितो नृपः पूजितः स्वसेवकैर्नृपैरापूरितसभः सन्नित्यर्थः । नेत्राभ्यामुदक्तो/कृता या भ्रूस्तया भ्रूसंज्ञया कृत्वा द्वास्थेन का तं दूतं प्रावेशयच्च ॥
ध्वस्त । अग्लुचत् । इत्यत्र “नो व्यञ्जनस्य" [५५ ] इत्यादिना नस्य लुक् ॥ अनुदित इति किम् । अनिन्दित ॥
नेम्रोदक । अत्र "अञ्चोन याम्" [ ४६] इति नस्य लुक् ॥ अनायामिति किम् । नृ(भू)पाञ्चितः ॥
तेनाविकैपितेनाविलगितैः स्पेनिषीदता ।
नाभाजि विनयो नाभञ्ज्यवष्टम्भः सजन्यशः ॥ २९ ॥ २९. तेन दूतेन विनयः प्रणामाधुचितप्रतिपत्तिर्नाभाजि न भन्नः । कीही तेन । अविक पितेन संक्षोभोत्थस्तम्भादिविकाररहितेन । तथाविलगिते रोगादिनानुपतप्तैः स्वैरात्मीय टैः सह निषीदता चेदिसभायामुपविशता । तथा तेन यशः सजन्बध्नन्नवष्टम्भ ओर्जित्यं नाभजि । तावानेव विनयः कृतो यावता स्वावष्टम्भो न भ्रष्ट इत्यर्थः ।।
दर्शन्क्रमुककर्पूरं सोथ रागी रजन्सदः ।
रजकक्षालितक्षोमचोक्षदन्तांशुरब्रवीत् ।। ३० ॥ ३०. अथ स दूतोब्रवीत् । कीक्सन् । रागी शृङ्गार्यत एव
१ सीडी कम्पिते . २ ए°शनकमु. ३ सी डी दन्ताशु.
१ए स्वसैव. २ सी क्तोद्वीकृ. डी क्तोद्वीकृ'. ३ वी 'तप्र वे'. ४ वी सी डी 'शा सतावि'. ५ सी कम्पत. दी कम्पिते. ६ ए गितो रो". •ए भव्यैः स. ८ ए°व भौ'.