________________
[ है० ४.२.२३.] अष्टमः सर्गः। नेता शत्रुर्जारंजारं जरंजरमभीक्ष्णं निर्जरय्य निर्जरय्य विनाश्याजरिविनाशितः । तथेपुभिः कसयितृजनः कसयिता वञ्चयिता सन्तापयिता वा जन: शत्रुः कासंकासं क्सक्नसमभीक्ष्णं वञ्चयित्वा वञ्चयित्वा संताप्य संताप्य वानसि वञ्चितः संतापितो वा। व्याव्याथमित्यादिभिरेवाभीक्ष्ण्येवगतेपि जिणम्परे णौ वा ह्रस्वोदाहरणानां लाघवेनोपन्यासार्थ यंथंव्यथमित्यादीनामाभीक्ष्ण्य एव वर्तमानानां पुनः प्रयोगोतिशयेनाभीक्ष्ण्यं वक्ति । एवमन्यत्रापि ॥ हरिणी छन्दः ॥
प्रतिजनयता जानजानं जनजनमाग आवनयितुरमुन्वानवानं वनंवनमोजसा । रजयसि मृगान् राजराजं रजरजमाः किमित्यतिहसकृता भीमस्याव्याथ्यतीव मनो द्विषा ॥ १२२ ॥ १२२. ओजसा वलेन प्रयोज्यक सून्हम्मुकप्राणान्वानवानं वनंवनमभीक्ष्णं याचयित्वा याचयित्वावनयितुर्याचयितुर्ग्राहयितुबलेन हम्मुकं मिमारयिषोरित्यर्थः । भीमस्य मनो द्विषा हम्मुकेनातीवात्यर्थमव्याथि पीडितम् । यतः कीदृशा । अतिहसकृतात्यर्थ हसता। कथमित्याह । आ इति खेदे । कष्टमहो भीम किमिति मृगान् राजराजं रजरजमभीक्ष्णं रमयित्वा रमयित्वा रजयसि रमयसि व्याध इव मृगतुल्यानेतान्भटान्किमिति खेलयसि ममैव पार्श्वे ढौकस्वेत्यर्थ इति ।
१ ए सी ई प्य वि. २ ए शित । त. ३ सी डी 'ताज'. ४३ व्याथ व्या. ५ वी भीक्ष्योव. सी भीक्ष्णेव. ६ सी व्यथ'. ७ सी भीक्ष्ण ए'. ८ सी हरणी. ९ए; तेन हम्मु १० x The ms
becms to lave omitted one line The omission is hointidoret but not filled in. ११ ए त्वाव. १२ ए तुयाच'. सी तुर्मा. १३ ए नोह द्वि.