________________
[है०४.२.१३] अष्टमः सर्गः।
६५७ अचापयत् अचाययत् । स्फारयत् स्फोरयत् । इरान "चिस्फुरोर्न वा" [१२] इत्याहा ॥
गाः प्रवापयति बलाकाः प्रवाययति । इत्यत्र "वियः प्रजने" [ १३ ] इत्याद्वा ॥ धन्व रोपयत रोहयते' मा विलीनयत सर्पिरिदानीम् । मा विलालयत वा नवनीतानीति सैन्धवजनैर्निरघोषि॥११५॥
११५. सैन्धवजनैः सिन्धुनिवासिलोकैरितीदं निरघोषि घोषितम्। तदेवाह । हे जना धन्व धनू रोपयत सज्यं कुरुत तथेषु वाणं रोहयत संधत्तेदानी सर्पितं मा विलीनयताग्निसंपर्केण मा द्रवीकुरुत नवनीतानि वा मा विलालयतेति ।। भो विलापयत सर्पिरशङ्का एष सिन्धुमभिपालयितास्मि । पीणयञ्जनपदानिति धन्वोनयन्समिति हम्मुक आगात्॥११६॥
११६. हम्मुको हम्मुकाख्य: सिन्धुपतिः समिति रण आगात् । कीहक्सन् । जनपदान्प्रीणयन् । कथमित्याह । भो जना अशङ्का निर्भयाः सन्तः सर्पिविलापयत द्रवीकुरुत यत एप प्रत्यक्षोस्म्यहं सिन्धुदेशमभिपालयिता स्वयमेव पायमानं सिन्धुं प्रयुञ्जानः सिन्धुरक्षाशीलोहं वर्त इत्यर्थ इति । तथा धन्वोद्भूनयन् गुणाकर्षणेन कम्पयन् । प्राययत्स्वमभिधावयदद्रीन्वाजयद्धवमपाययदोजः । छाययैनमभिशायर्य वेत्थं जल्पदस्य च बलं प्रससार ॥ ११७ ॥
११७. अस्य हम्मुकस्य बलं प्रससार । कीक्सत् । ओजो बल
१ई य चेत्थ. २ वी य चेत्थ,
१ ई कैः रि. २ एपिघृत, ३ सी डी पालय.