________________
६५६
ब्याश्रयमहाकाव्ये [ भीमराजः] क्रापयविपदमून्विशिखैरध्यापयच्च रुदितान्यरिनारीः । जापयत्स्वमभिसाधयदर्थ व्याप सेधयदरीशमनीकम् ॥ ११३ ॥
११३. अनीकं भीमसैन्यं व्याप सर्वत्र प्रससार । कीटक्सत् । विशिखैः कर्तृभिद्विपदसून् कापयवाहयदत एवारिनारी रुदितान्यध्यापयच्च रोदयदित्यर्थः । तथा स्वमात्मानं ज्ञातिमात्मीयं वा जापयद्विजयमानं प्रयुञ्जानम् । तथार्थ स्वकीय देशस्वीकारादिकमभिसाधयन्निप्पादयत् । तथारीशं सिन्धुराजं सेधयदहं तवोपर्यागच्छामीति ज्ञापयत् ॥
कापयत् । जापयत् । अध्यापयत् । इत्यत्र "णौ क्रीजीड:"[१०] इत्यात् ।
अर्थमभिसाधयत् । इत्यत्र "सिध्यतेरज्ञाने" [११] इत्यात् । अज्ञान इति किम् । अरीशं सेधयत् ॥
स्फारयद्धनुरचापयदुचैः स्फोरयद्धनिमचाययदेतत् । गाः प्रवापयति यश्च वलाका यः प्रवाययति वा स इवर्तुः ॥११४॥
११४. एतनीमानीकं कर्तृ धनुश्चापं स्फारयदाकर्पत्सद्धतुरेवोच्चैरचापयट्यस्तारयत्तथोञ्चरुदात्तं ध्वनि सिंहनादं स्फोरयर्दुच्छालयत्सद्धानिमचाययब्यस्तारयत्। उपमामाह । य ऋतुर्गा धेनू: प्रवापयति गर्भ ग्राहयति य ऋतुर्वलाकाश्च पक्षिणीभेदांश्च प्रवाययति स ऋतुरिव वर्षाकाल इवेत्यर्थः । वसु हि पुरोवाते वाति गावो बलाकाश्च गर्भ गृहन्ति । यथा वर्पर्धनुरिन्द्रचापं ध्वनि गर्जितं च विस्तारयति तथेत्यर्थः ॥
१५ः । स्वमात्मी. २ सी कार्यदे'. ३ सी ६ स्फार. ४ई दुमाल. ५५ वा तो या. ६ वी तुधनुः