________________
[है० ४.१.१०१.]
अष्टमः सर्गः।
सवय यत ऋद्धः स्फीतो यो भुजविक्रमस्तेन कान्तै रम्यैः । अतिशूरत्वेन सैन्यात्पूर्वमेव योद्धं कैश्चिद्वह उत्प्लवितुमिष्ट इत्यर्थः ।। किं प्रशानसि भुजौ तव शंशान्तो वदत्यवनिवृत्रहणीत्थम् । सेतुकष्टमपि शामति सामप्रश्नपृष्टजनतासु किल म ॥ १०१॥
१०१. सामप्रश्नपृष्टजनतासु साम्ना मधुरालापेन यः प्रश्नः पृच्छा तेन पृष्टा या जनता लोकौघास्तासु विषये किलेति सत्ये सेतुकष्टमपि सेतोर्वन्धजनितं दु:खमपि शामति स्म शमिन सुखमिवाचरति स्म । क सत्यवनिवृत्रहणि पृथ्वीन्द्रे भीमे । किंभूते । वदति । कथमित्याह ।अहो भट किं प्रशानसि सेतुबन्धादुपशाम्यन्भवसि । तथा तव भुजौ किं शंशान्तो भृशमुपशाम्यत इत्थम् ॥ स्योमभिः स वह आहितसेतुस्यूत उत्पथविडम्बुभरष्ट्यूः । हुँ मुवो मम गिरीनिति सेष्योति स्म मोमकृतमूतिनिमित्तात्॥१०२॥
१०२. स वहो मोमभिर्मवद्भिर्वन्धकैर्नरैः कृता या मूतिर्बन्धैः सा चासौ निमित्तं च तस्माद्रीिन्समीपस्थानद्रीन्सेप्योति स्मात्यर्थ बवन्ध सर्वतोप्लावयदित्यर्थः । कीडक्सन् । सीव्यन्ति स्योमानो बन्धकनरास्तैः स्योमभिराहितः कृतो यः सेतुस्तेन स्यूतो वद्धोत एवोत्यथानुन्मार्गान्विच्छति गच्छति योम्बुभरस्तं प्ठीवति निरस्यति यः सः। उत्प्रेक्षते । न गिरीन्मोमकृतमूतिनिमित्तात्सेष्योति स्म किं तर्हि हुँ मुवो ममेति । इतिर्भिन्नक्रमे । इव उत्प्रेक्षाद्योतको ज्ञेयः । हुमिति कोपे।
१ वी सी रीनति. २ सी कृतिमू. १ई ऋद्ध स्फी'. २ एनः प्रच्छा. ३ डी कि शशा. ४ वी न्धः स चा. ५ बी °द्रीनसेष्यो. ६ ए बी न स्फूतो. ७ वीई प्रेक्ष्यते. ८ वी तात्सैष्यो'. ९ बी सी प्रेक्ष्यायो".