________________
[ है०४.१.१००]
अष्टमः सर्गः।
६४५
प्यवशीनं गतम् । इह सेतुबन्धविषय ओज उत्साहस्तु नाभ्यवशीनम् । व्यायामेन हि रोगजाड्ये प्रायोपयात ओजस्तु वर्धते ।।
श्यानमभ्यवपर तरुजालं ग्रावजातमभिसंपरशीनम् । तद्वहान्तरपथैरभिसंश्यानं पयोर्धमृतद्गुग्धहविर्वत् ।। ९८ ॥
९८. तद्वहान्तस्तस्य वहस्य मध्ये तरुजालमभ्यर्वपरं श्यानमभ्यवैश्यानं पतितं तौँ ग्रावजातं शिलौघोभिसंपरशीनमभिसंशीनमत एव पयोम्भोपथैरुन्मागैरभिसंश्यानं वहमध्यस्य तर्वादिभिर्व्याप्तत्वात्तजलमितस्ततो गतमित्यर्थः । अर्धशृतदुग्धहविर्वद्यथार्धते स्वयमर्धपक्के दुग्धहविपी क्षीरघृते अपथैरभिसंश्यायेते उत्फणनेन स्थाल्या बहिर्गच्छतः ॥ प्रातिशीन्यम् । अन्न "प्रतेः" [ ९८ ] इति शीः ॥
अभिशीनम् अभिश्यानेन । अवशीनम् अवश्यानेभ्यः । अत्र “वाभ्यवाभ्याम्" [९९] इति वा शीः ॥ केचित्तु समा व्यवधानेपीच्छन्ति । अभिसंशीनम् अभिसंश्यानम् । तदा वाभ्यवाभ्यामिति तृतीया व्याख्येया॥ समस्ताम्यामपीछन्त्यन्ये । अभ्यवंशीनम् अभ्यवश्यानम् ॥
शृतदुग्धहविर्वत् । इत्यत्र "श्रः शतम्" [१००] इत्यादिना तेति निपात्यम् ॥
१सीह शेतु. २ ए वश्यान प. ३ बी वशान प. ४ ए या जाया. ५ सी डी परिशी'. ६ डी शीतम. ७५ मत. ८ वी 'भिशी. ९ डी वाज. १० वी प्रित. ११ बी भिते. १२ डी स्थाल्या व. १३ ए तिसन्य. १४ डी शीत भ. १५ई अवश्यानेभ्यः. १६ ए नेभ्यः. १७डी वाम्या. १८ सी च्छन्तोन्ये. १९ डी वश्या'.