________________
६४४
व्याश्रयमहाकाव्ये
[भीमराजः]
प्रसंस्तीत। प्रसंस्तीवत् । इत्यत्र “प्रसमः स्त्यः स्तीः" [९५] इति स्तीः ॥ शीतशीनमकरन्दलवः प्रस्तीमशीनवदुदम्बुतुषारः। श्यानतां नृषु दिशन्पवनः प्रस्तीतधर्मसलिलानि जहार ॥१६॥
९६. पवनः प्रस्तीतधर्मसलिलानि श्रमोद्भवान्संहतस्वेदविन्दूलहार । कीदृक् । शीतेन शीतलगुणेन शीता द्रवीभूय कठिनतां गता यद्वा शीता: शीतला अत एव शीना मकरन्दलवाः पुष्परसलेशा यत्र सः । तथा प्रस्तीमाः संहताः शीनवन्तो द्रवीभूताः सन्तः कठिनतां गता उदुत्कटा अम्बुतुषारा वहजलसंवन्धि हिमकणा यत्र सः । तथा मृदुत्वान्नृषु श्यानतां गतिमत्तां दिशन्ददत् ।। प्रस्तीम प्रस्तीत । इत्यत्र "प्रात्तश्च मो वा" [ ९६ ] इति वा मः ॥ शीन शीर्नवत् । स्पर्शे शीत । इत्यत्र “श्यः शी" [ ९७ ] इत्यादिना शीः ॥ द्रवमूर्तिस्पर्श इति किम् । श्यानताम् ॥ प्रातिशीन्यमभिशीनमभिश्यानेन जाड्यमवशीनमथापि । सेतुबन्धनपरत्वमवश्यानेभ्य ओज इह नाभ्यवशीनम् ॥ ९७ ॥
९७. इह वहे सेतुबन्धनपरत्वं सेतुवन्धतात्पर्यमवश्यानेभ्यः प्राप्रेभ्यो भटेभ्यः सकाशादभिश्याननेतस्ततो भ्रमणेन प्रातिशीन्यं रोगित्वमभिशीनमपगतम् । अथानन्तरं जाड्यमपि रोगादिकृतालस्यम
१ ए हारः ॥ १. २ए मोह इ.
१ वी मस्त्यस्ती• २ सी ति स्ती॥. ३ ए शीता द्र. ४ ए भन्नतु. ५ ई बन्धदि. ६ ए शीना शी'. ७ ई नव'. ८ सी नवाद. ९सी ना शी. १० वी हे शेतु. ११ वी व शेतु. १२ ए "नेनैत', १३ सी डी शीतम'.