________________
[है० ४.१.९४.] अष्टमः सर्गः।
६४३
१४३ स्फीतवत्तुमुलधावदनापीनान्धुसैनिकसमूहमुदीक्ष्य । स्फीतभीतिरदाटविकापीनोनिकागण उदत्रसदारात् ॥ ९४ ॥
९४. अटन्यो भ्राम्यन्य आटविक्योरण्यचारिण्यो या आपीनोनिका अज्ञाता आपीनोऽभ्यश्चमर्यस्तासां गण आरादन्तिकादुदत्रसदनश्यत् । यतः कीदृक् । स्फीतभीतिः प्रवृद्धभयः । किं कृत्वोदीक्ष्य । कम् । स्फीतवान्संततस्तुमुलो व्याकुलरवो यस्य स तथा धावञ्जवेन गच्छंस्तथानापीनोप्रवृद्धोन्धुव्रणं यस्य स तथा निर्बण इत्यर्थः । य: सैनिकसमूहस्तम् । आटविकेत्यत्र "चरैति" [६.४.११ ] इतीकण् ॥
स्फातटङ्ककुलिशैः प्रसमावस्तीतपङ्कमिव चिच्छिदुरद्रीन् । स्फातवद्भुजभृतः प्रसमावस्तीतवदृषद उद्दधिरे च ॥ ९५ ॥
९५. स्फातवद्धजभृतः पीवरवाहधारिणो बलिष्ठभटाः स्फाता: स्थूला ये टङ्काः पाषाणदारकास्त एव कुलिशानि तैः कृत्वाद्रींश्चिच्छिदुः । प्रसमाद्यस्तीतपङ्कमिव प्रसमांद्यस्तीतः प्रसंस्तीतः कठिनीभूतो यः पङ्कस्तं यथा केचिच्छिन्दन्ति तथानायासेन चिच्छिदुरित्यर्थः । तथा प्रसमाद्यस्तीतवद्दषदोतिकठोरशिला उद्दधिरे चोत्पाटितवन्तश्च ॥ अनापीनान्धु । आपीनोनिका । इत्यत्र "आडोन्धूधसोः" [१३] इति
स्फीत । स्फीतवत् । स्फीत। स्फातवत् । इत्यन्न "स्फायःस्फीवा (स्फीर्वा ?)" [ ९४ ] इति वा स्फीः॥ १ए दीक्ष। स्फी.
१ वी प्रामन्य. २ ए म्यन्त आ. ३ सी टकिक्यो . ४ ईरिण्य आ. ५ डी कुलो र.६ वी डी ई रती सी रतीकथा ॥ स्फा'. ७ सी मायुस्तीतप्र. ८ वी 'च्छिदन्ति. ९ सी दोभिकवोर. १०ई पीः ॥ स्पीत । स्फीतवान् । स्फा. ११ सी स्फीतः । स्फी'. १२ सी स्फातः । स्पात. १३ ई स्फाय स्फी'.