________________
६४२
व्याश्रयमहाकाव्ये
[ भीमराजः]
९२. तत्र तेषु चमूपेषु मध्ये केपि चमूंपाः सपदि दृषद्भ्यः । "गम्यस्याप्ये" [२.२.६२.] इति चतुर्थी । शिला आहर्तु शिश्वियुजग्मुः । केपि च तरुभ्यो वृक्षानाहतुं शुशुवुः । किभूताः सन्तः । यथा हनुमान् शोशवीति स्म रामेणाब्धिसेतुवन्धे दृषदाद्याहरणायेतस्ततो भ्रमणात्कुटिलं गतस्तथा त्वं कि न शेश्वयीपीत्यन्योन्योत्साहनाय वदन्तः ॥
शुशुवु. शिश्वियुः । शोशवीति शैश्वयीपि । इत्यत्र “वा परोक्षायडि" [९० ] इति वा स्वृत् ॥ पिप्यिरे प्रतिरवा गगनान्तः पेप्यिताचलदरीषु च पीनाः । पीनवत्परशुपाणिनिकृत्तोत्प्यानपादपपरापतनोत्थाः॥ ९३ ॥
९३. प्रतिरवाः प्रतिशब्दा गगनान्तः पिप्यिरे वृद्धि गतास्तथा पेप्यिता अतिवृद्धा या अचलदोद्रिगुहास्तासु च पीना बहूभूताः । किंभूताः । पीनवन्तः स्थूला: परशवः पाणावेषां तैनिकृत्तानां छिन्नानामुत्प्यानानामतिस्थूलानां पादपानां यत्परापतनं परावृत्त्या निपतनं तस्मादुत्तिष्ठन्ति ये ते तथा ॥
पिपियरे । अन "प्यायः पीः" [९१] इति पीः ॥ दीर्घनिर्देशो यङ्लुवर्थः । पयित॥
पीनाः । पीनवत् । इत्यत्र "कयो"[९२] इत्यादिना पीः ॥ अनुपसर्गस्येति
किम् । उत्प्यान ॥
१ सी कृत्योत्पान'.
-
१ वी मूपा सौ. २ डी शेश्चियी'. ३ डी शेश्चियी . ४ ईन्तः पेप्यि ५ डीई बहुभू'. ६ वी प्यितः ॥. ७ सी पीना ।. डी पीन ।।