SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ ६४१ [ है०.४.१.८९.] अष्टमः सर्गः । आजुहाव । इत्यत्र "द्वित्वे ह्वः" [ ८७ ] इति वृत् ॥ अनेनैव सिद्ध उत्तरसूत्रकरण णेरन्यसिन्दुित्वनिमित्तप्रत्ययव्यवधायके वृन्मा भूदित्येवमर्थम् । तेनेह न भवति । आह्वायकमिच्छति आह्वायकीयति ततः सनि आजिह्वायकीयिपतः ।। निरजूहवत् । आजुहावयिपति । इत्यत्र “णौ ङसनि" [८८ ] इति वृत् ॥ तेष्वशूशवदसौ क्षितिपाज्ञां सेतवे भृशमशिश्वयदोजः । ते शुशावयिपवश्च जयं शिवाययिप्वनुचराः स्म यतन्ते ।। ९१॥ ९१. असौ प्रतिहारस्तेपु चमूपेषु विपये क्षितिपाज्ञां वहबन्धविपयं भीमादेशमशूशवदगमयन् । ज्ञापितवानित्यर्थः । तथासौ सेतवे सेतुवन्धार्थे तेपु विपय ओज उत्साहमशिश्वयदवर्धयत् । ते च चमूपाः सेतवे यतन्ते स्म च । चो यौगपद्ये । यदैव प्रतिहारः क्षितिपाज्ञामशूशवत्तदैवोद्येमुरित्यर्थः । यतः किभूताः । जयं राज्ञो विजयं शुशावयिपवो विवर्धयिषवस्तथा जयं शिश्वीययिपवो विवर्धयिषवोचराः सेवका येषां ते। सापेक्षत्वेप्यत्र गमकत्वात्समासः ॥ अशूशवत् अशिश्वयत् । शुशावयिपर्वः शिवाययिपु । इत्यत्र "श्वेर्वा" [८९] इति वा वृत् ॥ कथं कथं यतन्ते तत्राह । शिश्वियुः सपदि केपि दृपयस्तत्र केपि शुशुवुश्च तरुभ्यः । शोशवीति हनुमान्स यथा किं शेश्वयीपि न तथेति वदन्तः।।९२॥ १ ए डी सी श्वावयि. २ डी शेश्वियी . १ए तिप्राशा. २ सी डी श्वावयि०. ३ डी वोनु. ४ ई °नुचाराः. ५ ए वः शिश्वावयिषवः शि. ६ ए सी डी श्वावयि. ७ ई तिव्य. ८ई थ य. ९ ए यत्रन्ते. १० वी नेत्रा. ८१
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy