________________
व्याश्रयमहाकाव्य
[ भीमगजः ।
अनुशितम् । उशन्ति । इत्यत्र “वशेरयडि" [ ८३ ] इति वृत् ॥ अयडीति किम् । वावश्यते ॥
गृहीत । संजिघृक्षुम् । वृक्णम् । परिवृश्चति । भृष्टम् । भृजति । पृष्टम् । परिपृच्छति । इत्यत्र "ग्रह" [ ८४ ] इत्यादिना वृत् ॥ व्यचिवशिवस्चिभ्रजिप्रच्छीनां पञ्चानां यङ्लुवन्तानां नेच्छन्त्यन्ये । आवाव्यक्ति ॥ अन्ये तु यड्लुप्यपि मन्यन्ते । अपेवेविक्ति ॥ अपरे तु विचतिवृश्चतिभृजतिपृच्छतीनां नित्य वृत् । ज्यादीनां त्वनित्यमिति मन्यन्ते । तेन विव्यधुः ॥ अन्ये तु विविधुरित्येवाहुः ॥
वैवीयते । वेवयीति । सेसिम्यते । सेसिमीपि । इत्यत्र "व्यस्यमो यडि" [८५ ] इति वृत् ॥ यङ्लुपि नेच्छन्त्येके । वान्यत् । संस्यमत् ॥ आजुहावयिपति स्म च स माचेक्यितोथ चतुरः प्रतिहारः । आजुहाव निरजूहवदार्जिह्वायकीयिपत आशु चमूपान् ॥ ९०॥
९०. क्ष्माचेक्यितः क्ष्मया पृथ्वीस्थलोकेनात्यर्थं पूजितः स भीमश्वमूपान्नृपानाजुहावयिषति स्म चाकारयितुमियेष च । यत आजिहायकीयिपत आह्वायकेच्छामिच्छतः । प्रागेवाह्वानमिच्छत इत्यर्थ. । अथ चमूपाकारणेच्छानन्तरं चतुरो नृपाभिप्रायज्ञ: प्रतिहार आशु शीघ्रं चमूपानाजुहाव स्वयमाकारितवान् । निरजूहवदन्यैराहायितवान्।। चेक्यितः । अत्र "चायः कीः" [ ८६] इति कीः ॥
१ ए वी डी सायिकी.
१ सी । वृ. २ ए भृयति. ३ डी व्रश्चिभ्र. ४ सी तु जड्लु. ५ ए पचेवि . ६ सी वेव. ७ ए व वेस्य. डी व वेत्यमोर्यडि ८ ई मोर्यछि. ९बी चेक्यतः. १०ई पाना . ११ वी हायिकी . १२ सीन् ॥ .