________________
६३६
ब्याश्रयमहाकाव्ये
[ भीमराजः]
सर्वतोपि हि सरांसि किमु प्रव्याय किं नु परिवीय नदीन्वा । किंतु सर्वसरितोपि परिन्याय स्थितो य उदकैः प्रतिभाति ||८२॥
८२. यो वह उदकैः कृत्वा प्रतिभाति मम मनसि प्रतिभासते । कीहक् । स्थितः । किं कृत्वा । हि स्फुटं सर्वतोपि सरांसि किमु प्रव्यायात्मनि प्रक्षेपात्संवृत्याच्छाद्य वा कि नु कि वा नदान्वा । वा समुच्चये । वहांश्च परिवीय संवृत्य कि नु किं वा सर्वसरितोपि सर्वनदीश्व परिव्याय संवृत्य । अतिमात्रजलत्वात्कवेरित्याशङ्का । इज्यते जलनिधिं किल संवीय स्थितः कलशभूः स मुधैव । उह्यते यदमुनैप न संव्यायेति यत्र नृभिरुच्यत उच्चैः॥ ८३॥ . ८३. यत्र वहविषये नृभिरुच्चैरुच्यते । कथमित्याह । किलेत्यागमे । जलनिधि संवीय पानेन संवृत्य स्थित: स प्रसिद्धः- कलशभूरगत्यो मुधैवेज्यते । अब्धिः पीतोनेनेत्यचिन्त्यवैभवतयाँ लोकैर्यदयं पूज्यते तन्निरर्थकमित्यर्थः । यद्यस्माद्धेतोरेष वहः संव्याय पानेन संवृत्यामुना कलशभुवा नोह्यते स्वात्मनि न धार्यते । वहेनापीतेब्धिः पीतोप्यपीत इति भावार्थ इति ॥
प्रव्याँय । इत्यन्न "व्यः" [ ७७ ] इति वृन्न ॥ संव्याय संवीय । परिव्याय परिवीय । इत्यत्र “संपरेर्वा" [७८ ] इति वा वृम॥ इज्यते । उद्यते । उच्यते । अत्र "यजादिवचेः किति" [७९ ] इति वृत् ।।
१ वी सी डी किं तु प. २ ए दान्वाः । किं. ३ई किं नु स.
१बी भासि म°. २ वी सी डी किं तु किं. ३ सी न्वा स. ४ वी सी डी किं तु किं. ५ ए °निधिस. ६ ई "या कै. ७ वी व्याज । ई. ८ सी वृत ॥ डी वृतः .