________________
व्याश्रयमहाकाव्ये
[मूलराजः]
स्वानुकलान् स्वजनादीश्च पोषयति तथा धर्मोप्यत्रत्यजनविनयलक्षणेन महावळेन बलिष्ठत्वादहंकारादीन् स्वशत्रूनभिभवति स्वानुकूलान् दानशीलादीश्च पोषयतीत्यर्थः । अत एव प्रेकति प्रकर्षेणैक इवासाधारण इवाचरति । बलिष्ठत्वेन निःसपनत्वान्निरुपमो भवतीत्यर्थः । उत्प्रेक्ष्यते । प्रौपधयन । पूर्ववदुत्प्रेक्षात्रावसेया । प्रकर्षेण वलकान्त्यादिवृद्धिकरीमोषधिं कुर्वन्निव । णिज् । करोति: सामान्यकरणार्थोपि प्रस्तावादिह विशेषे भक्षणकरणे वर्तते । यद्वा । अनेकार्थत्वाद्धातूनां करोतिरिह भक्षणार्थस्तेनौषधि भक्षयनिवेत्यर्थः । यो हि बलकान्त्यादिवृद्धिकरीमोषधिं भक्षयति स तत्प्रभावादोजस्वी निरुपमञ्च स्यात् । अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः॥
रजतं चारु ईक्षित्वा हारि अत्र च काश्चनम् ।
दधियेतन्मधुवेतत्कुमारी एवमूहते ॥ २२ ॥ २२. सुगमः । नवरं हारि जात्यत्वाद्रम्यम् । एतत्प्रत्यक्षं वस्तु दधि वर्तते । एवं तथैतत्प्रत्यक्षं वस्तु मधु वर्तते । एवं च वालिका वितर्फयेति । सावाद्वाल्याञ्चैवमूहः । एवमिति भिन्नक्रमे यथास्थानं योजित एव । एवंशब्देनैव कर्मण उक्तत्वादधियेतदित्यत्र मधुवेतदित्यत्र च नामार्थमाने प्रथमैव ॥
रोदस्यो पावयन्त्येनोलवन्योर्वाग्निनायिनी । अव्येतिहत्ता ब्राह्यत्र गव्यनाव्यजला नदी ॥२३॥ २३. अन पुरे ब्राह्मी ब्रह्मणोपत्यं नदी सरस्वत्यस्ति । कीदृशी।। अक्षण: पुत्रीत्वेन महातीर्धत्वादेनः पापं लूयतेनयेत्येनोलवनी । अत एव गदस्यो धावापृथिव्यो पावयन्ती पवित्रयन्ती । तथौर्वानि वडवानलं
१ एफू पति. २ ची क्षणम सी एफ क्षणे म. ३ सी डी एफ सेक्षत. ४भी सीडी रोगौर. ५ वीसी रानीप'. ६ एफ 'मन्नमहोप. ७ सीडी नु म. ८ एफ चैव स . ९सीडी 'यन्ति । ता. १० ए यी तीत.
-
-