________________
६३२ व्याश्रयमहाकाव्ये
[ भीमराज.] यः कूलंकपत्वेन मकरैर्मत्स्यैः कर्तृभिस्तटान्यववेष्टव्यापयामास । अथैवं सति यो भीष्मत्वाद्भयेन का कं नरं नाविवेष्टन् ॥ योम्बुधिर्नु जलदानचचेष्टन्स्वर्वधूः सुरसरिन्वचिचेष्टत् । न त्ववाजगणदत्र जनोयं कण्ठभूषणमजीगणदुर्व्याः ॥ ७६ ॥
७६. यो वहोम्बुधिर्नु जलदानेचचेष्टजलग्रहणाय व्यापारितवान । तथा यो निर्मलजलत्वेन सुरसरिन्नु व्योमगङ्गेव स्वर्वधूवीरचिचष्टजलक्रीडाथ व्यापारयत् । अत एवात्र पृथ्व्यां य वहं जनो न त्ववाजगणदल्पीयानिष्फलश्चायामिति नैवावज्ञातवान् । किं तु यं जन उाः पृथ्वीरमण्याः कण्ठभूषणं अवेयकमेतदाकारत्वादजीगणज्ज्ञातवान् ।
असस्मरत् । अददरत् । उदतत्वरत् । अपप्रथत् । अमम्रदत् । अतस्तरत् । भपस्पशत् । अत्र "स्मृदृत्वर” [ ६५ ] इत्यादिना पूर्वस्यात् ॥
अववेष्टत् आविवेष्टत् । अचचेष्टत् । अचिचेष्टत् । इत्यत्र "वा वेष्टचेष्टः" [६६] इति वात् ॥
अजीगणत् । अवाजगणत् । इत्यत्र ईच्च गणः" [६७ ] इति-ईदच्च ॥ आदुरानृधुरथानशिरे चान जुराञ्छुरभितोपि यदापः। वाश्छलेन गिरिराविमिहानाञ्छेति येन च बभूव वितर्कः ॥७७॥
७७. येन वहेन हेतुना वितऊर्थान्नणां बभूव च । कथमित्याह । यद्यस्माद्धेतोरापोभितः समन्तादूर्व तिर्यग्दिक्षु चानृधुर्ववृधिरे । अथ वृद्ध्यनन्नरमभित आनशिरे व्यापुस्तथाभित आनञ्जुश्च म्रक्षयामासुराद्रीचकुश्चेत्यर्थः । चो भिन्नक्रमे । आम्छुरपि दी/बभूवुश्च । अपिः समु
१ वी विचेष्ट'. २ ए नववेष्ट'. ३ ए रविचे. ४ सी डी निफल: ५ एपण. ६ डी त् । उ. ७ई पश्यश. ८ बी अचचेष्ट', ९ डा त अदि. १० ए बी ईच ग. ११ बी सी डी मुश्शार्दी. १२ ए श्चो. द्विष. १५ ए सी अपि स.