________________
[हे. ४.१.६८ ]
अष्टमः सर्गः।
बयार्थी भिन्नक्रम । अत एवाभिन आदुग्वि सामस्त्येन मुक्ता इव । ये हि यथाकाम भुक्ता. म्युस्ते ह्यगन वर्वन्ते । तत. स्थौल्यादिशो व्याप्नुवन्ति स्निग्धाङ्गत्वचा म्रक्षिता इव च स्युर्दी(भवन्ति चेति । अतश्च वाश्छलेनैव प्रवृद्धव्यापकदीर्घाभूतजलव्याजेनेह सिन्धुदेशे कि गिरिराडिमालय आनाञ्छ दीपीवभूवेति ॥ किं बभूव इह चन्द्रमसा मुप्पाप किं हरिरिहेह वुभूवे ।। किं श्रिया भृगुसुतः किममुं विव्याध चेनि जनता यमनूचं ॥७८॥
७८. यं वहमनु लक्ष्यीकृत्य जनतोचे । कथमित्याह । चन्द्रमसा किमिह वहे बभूव उत्पन्नम् । तथा हरिर्विष्णुः किमिह वहे सुष्वाप तथेह वहे कि श्रियो बुभूवे तथा भृगुसुतः परशुरामः किममुं वहं विव्याध च शरेणाताडयच्चेति । समुद्रे हि किल चन्द्रश्रियावुत्पन्ने हरिश्च सुष्वाप रामश्च समुद्रपर्यन्तायां भूमौ विप्रेभ्यो दत्ताया स्वावासभृम्यर्थमब्धि शरेणाताडयदिति प्रसिद्धिः । अयं वहो महाप्रमाणत्वनाधितुल्य इति जनतात्रैवमाशङ्कतेत्यर्थः ।। वम विव्ययिथ जिज्यिथ सीमां किं नु विव्यचिथ वारिधिरेव । को भ्रमादिदमुवाद न यस्मिन्विव्यथे च हृदि को न तितीर्घः
॥ ७९ ॥ ७९. भ्रमात्समुद्रभ्रान्तेर्यस्मिन्वहविषय इदं को नोवाद नावदेत् । किमित्याह । वर्त्म विव्ययिथातिदीर्घत्वेनाच्छादितवान्रुद्धवानित्यर्थः । तथातिविस्तीर्णत्वात्सीमामियत्प्रमाणोयमिति मर्यादां जिज्यिथ तत्य
१ सी बुभुवे. २ सी ज्यिवं सी.
१ सी डी गन्वाच्चाम्र०. २ ए स्युद्दी ३ वी वाछले . डी वा स्यले'. ४ सी हे क श्रि. ५ ए सी या बभू. ६ सी डी, पशुरा'. ७ए मा किंम° सीमः केम' ८ सी को नावा'. ९ बी दत । कि.
८०